________________
(९८) चतुःशालगृहलक्षणं नामाष्टनवतितमं सूत्रम् ॥
विश्वकर्मोवाच
अथातः संप्रवक्ष्यामि चतुःशालं गृहोत्तमम् । प्रस्तारनिर्णयं वरस कथयामि समासतः॥१॥ अष्टमूषायते छन्दे त्रिपुटे: स्यात्तु छन्दकम् । द्वे वे मूषे प्रतिदिशं मूषाणां स्यादयं क्रमः ॥२॥ स्वस्थानसंस्थिता स्थानं द्विगुणं चोत्तरोत्तरम् । एषा युक्तिर्विधातव्या प्राच्यादिषु प्रदक्षिणम् ॥ ३॥ मध्यकोष्ठकेषु रूपं चन्द्रध्वजसथ्यान्तरे ।। चन्द्रायुक्तमयोगे तु विधातव्याः प्रदक्षिणैः ? ॥४॥ अथैकद्विचतुरष्टद्विरद्वात्रिंशत्तथा । चतुःषष्टिःशतमष्टाविंशत्युत्तरमेव च ॥ ५॥ वे द्वे मूषे प्रतिदिशं विधेये सुप्रदक्षिणम् । कथयामि समासेन षट्पञ्चाशच्छतद्वयम् ॥६॥ सुनाभं च विना मूषामादिमूषं च पूर्णकम् । द्वितीया त्वीश्वरे चाऽऽद्या द्वितीये य थियोद्भवे ॥७॥ याम्ये दक्षिणमषे च धान्ये आघातृतीयके । द्वितृतीये मूषिके च गृहसौख्यं च नामतः ॥ ८॥ मूषा आधाद्वितृतीयाः श्रियः कान्ते चतुर्थकम् । आद्यातुर्ये महाकान्ते द्वितुर्ये स्वामिवत्सले ॥९॥ भोगदे आद्याद्वितुर्यानिचतुर्यो च शाश्वते । क्षेमे आयात्रिचतुर्यों द्वित्रितुर्याश्च संवरे ॥ १० ॥ रम्ये आधाद्वित्रितुर्याः पञ्चमी स्यात्तु वारुणे। पञ्चम्याये च पूर्णाक्षे द्विपञ्चम्यौ च सम्भवे ।। ११ ॥ मोघे आधाद्विपञ्चम्यो महामोघे त्रिपश्चम्यौ । शते आद्यात्रिपञ्चम्यो द्वित्रिपञ्चभ्यो भोग्यदे ॥ १२॥ राझ्याधाद्वित्रिपञ्चम्यो भावुके पञ्चतुर्यके । नेत्रे चाद्यापञ्चतुर्य्या नन्दे पञ्चद्वितुर्यकाः ॥ १३ ।। द्वित्रितुर्याद्याश्च राज्ये ईशे पञ्चत्रितुर्यकाः। नाभ्ये व्याये पञ्चतुर्थे भवे पञ्चद्वित्रितुर्याः ॥ १४ ।