________________
२४६
अपराजित पृच्छा
अतिशस्तं सुविश्वासं शस्तं शान्तिप्रदायकम् । शाश्वतं च चिरायुष्यं सारं राजसन्मानदम् ॥ १५ ॥ दुर्दयं च दयाहीनं क्रोधनं क्रोधकारकम् । सौख्यं सौख्यप्रदं नित्यं पुष्षं पुष्टिप्रदायकम् ॥ १६ ॥ भयं भयावहं घोरमीश्वरं श्रीकरं भवेत् । आनन्दमानन्दकरं पाशुपत्यं च सौख्यदम् ॥ १७ ॥ उत्तुङ्गमुन्नतिकरं जयन्ताद्यास्तु भेदतः । मूषास्तु पूर्वत उक्ताः कालदण्डादिके यथा ॥ १८ ॥ रिपुमर्दनं रिज्वन्तं सुनेत्रं सर्वनन्दकम् । बलं बलप्रदं नित्यमतिबलं च महाबलम् ॥ १९ ॥ अशुभं शुभहीनाङ्गं शिवं शान्तिप्रदायकम् । यशोषलं सर्वलाभं विशालं विदितं गृहम् ॥ २० ॥ क्रूरं क्रूरजनावासं श्रियं च विपुलां श्रियम् । प्रभु प्रभुसमुत्साहं कालनेत्रं तु विद्रुतम् ॥ २१ ॥ विद्विनेत्रं श्रीविहीनं लक्ष्मीधरं तु श्रीकरम् । श्रियः पति पतिमानं जयकृच्च महाजयम् ॥ २२ ॥ जयाख्यं च सदा तुष्टिमष्टादश प्रकीर्तिताः । कालदण्डादिवच्चैषां मूषाभेदा यथाक्रमम् ॥ २३ ॥
इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवन देवाचार्योक्ता पराजितवृच्छायां त्रिशालगृहलक्षणक्रमाधिकारो नाम सप्तनवतितमं सूत्रम् ॥