________________
(९७) त्रिशालगृहलक्षणक्रमो नाम सप्तनवतितमं सूत्रम् ॥
विश्वकर्मोवाच
कालदण्डं विनामूषैर्धनधान्यमुखावहम् । आद्यमूर्ष प्रचण्डाख्यं प्रतापकीर्तिवर्द्धनम् ॥ १॥ धीजयं श्रीप्रदं चैव प्रोक्तं दक्षिणमूषिकम् । धनावहं च धनदं पूर्वदक्षिणमूषिकम् ॥२॥ कलिप्रियं मायासदा मूषां पश्चिमतो वहत् । श्रेयस्करं महाकान्तं पूर्वापरमुखं वहत् ॥ ३॥ मनोहरं मनस्तुष्टिं दक्षिणापरमूषिकम् । लक्ष्मीप्रियं नामगुणं मूषा यत्रोत्तयं धिना ॥ ४॥ विमुखं चोत्तरामूर्ष कलिसन्तापकारकम् । क्रोधनाख्यं सदारं तत्पूर्वोत्तरमूषकम् ॥ ५॥ स्वामित्वदं स्वामिभक्तं दक्षिणोत्तरमूषिकम् । धनेश्वरं धनप्रियं त्रिमूषं पश्चिमां विना ॥ ६॥ कालं चापि विना याम्यां कालानलसमप्रभम् । विकरालं महाघोरं मूषा यत्र चतुर्दिशम् ।। ७॥ सर्धलाभं जनप्रियं प्रतिमूषाश्चतुर्दिशम् । भोगदं सिद्धिकामं च सदृशं च षड्दारकम् ॥ ८॥ स्वामिपुष्टिकृत् सुनाभं शुभं च शुभदायकम् । शान्तं शान्तिप्रदं नित्यं जयन्तं जयकारकम् ॥९॥ विभद्रं विहति लोके कुबेरं पुरु तुष्टिदम् । धनधान्यप्रदं यक्षं पक्षाख्यं प्रतिपक्षकृत् ॥ १०॥ क्रूरं घोरं विवक्त्रं स्यात् कलहं कलिकारकम् । सौम्यकं च शुभं शान्तं सुवक्त्रं च जनप्रियम् ॥ ११ ॥ क्षयं क्षयावहं वेश्म कालाख्यं कालसम्भवम् । विपुलं राजसन्मानं प्रतापं राज्यवर्द्धनम् ॥ १२ ॥ प्रोक्ता हिताय लोकानां मूषाभेदास्तु पूर्वतः । कालदण्डाद्यष्टादश मूषावहननामकाः ॥ १३ ॥ जयन्तं जयदं प्रादुर्भासुरं पुष्टिदायकम् । भीमविक्रमदं भीमं श्रीजयं जयकारकम् ॥ १४ ॥