________________
अपराजितपृच्छा कालदण्डाद्यष्टादशवेश्मानां वै भवन्ति हि । नाम तुल्या गुणदोषाः शस्ताऽशस्ताश्च सर्वदा ॥ १५ ॥ सुनाभं च शुभं शान्तं जयं च विभद्रं तथा । कुबेरं यक्षं पक्षाख्यं विवक्त्रं कलिसौम्यके ॥ १६॥ सुवक्त्रं क्षयं कालाख्यं विपुलं राज्यवर्धनम् । आस्मकं दारुणाख्यं च अष्टादश सुनाभतः ॥ १७ ॥ जयन्तं भासुरं भीमं श्रीजयं सुविश्वासकम् ।। शस्तं च शाश्वतं सारं दुर्दयंचैव क्रोधनम् ॥ १८ ॥ सौख्यं पुष्टं भयं घोरमीश्वरानन्दकं तथा । पशुपत्युत्तमे चैव अष्टादश जयन्ततः ॥ १९ ॥ . रिपुमर्दनसुनेत्रे बलं चातिबलं तथा । अशुभं च शिवं लाभ विशालं श्रीब्रे प्रभुम् ॥ २० ॥ कालनेत्रं विनेत्रं च लक्ष्मीधरं च श्रीपतिम् । महाजयं जयाख्यं च अष्टादश प्रकीर्तिताः ॥२१॥ यथानाम गुणाश्चैवं दोषा ये तान विवर्जयेत् । प्रोक्ता चैवं त्रिशालानां सङ्ख्या द्वासप्ततिस्तथा ॥२२॥ यथा युग्मोद्भवा भेदा द्विशाले च त्रिशालके । तद्युक्तिश्च विधातव्या चतुःशालगृहेषु च ॥ २३ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
त्रिशाल लक्षणाधिकारो नाम षण्णवतितमं सूत्रम् ॥