________________
(९६) त्रिशाल लक्षणं षण्णवतितमं सूत्रम् ॥
विश्वकर्मोवाच
कालदण्डं सुनाभं च जयन्तं रिपुमर्दनम् । त्रिशालानि तु चत्वारि दिशावहनभेदतः ॥१॥ दिशाच्छन्दोद्भवे छन्दे पृथगेकैकसद्मनाम् । चतुःषष्टिस्त्वीरितानि पुनरन्यानि चाष्टभिः ॥२॥ प्राग्दिग्मुखं भवेद्वेश्म कालदण्डं तु नामतः। याम्यामुखं सुनाभं स्याद्वेश्मैवं नाम शोभनम् ॥ ३ ॥ जयन्तं नामकं वेश्म तथा स्यावरुणोन्मुखम् । उत्तरास्यं तु कर्तव्यं कामदं रिपुमर्दनम् ॥ ४॥ कालदण्डं तथा वेश्म धनधान्यक्षयावहम् । सुनामे सर्वभद्रेषु पतिकल्याणकारकम् ॥ ५॥ जयन्तं कीर्तिदं लोके सुरेन्द्रादिप्रपूजितम् ।। रिपुमर्दनं तु राक्षां शत्रनुश्चाट्येद् ध्रुवम् ॥ ६॥ गृहा: प्राच्यापराः शस्ता नित्यं कल्याणकारकाः। याम्योत्तरामुखा ये ते प्रतापकीर्तिवर्द्धनाः ॥७॥ कालदण्ड प्रचण्डं च श्रीजयन्तं धनावहम् । मायासनं महाकान्तं मनोहरं लक्ष्मीप्रियम् ।। ८॥ विमुखं क्रोधनाख्यं च स्वामिभक्तं धनेश्वरम् ।। कालाख्यं विकरालाख्यं जनप्रियं च कामदम् ॥९॥ कालदण्डादिसद्मानि सङ्ख्यया चैव षोडश । कालदण्डं विना मूषम् त्रिशालं स्यादलङ्कृतम् ॥ १० ॥ आद्यमूर्ष प्रचण्डाख्यं श्रीजयं च द्वितीयया। धनावहं तु द्वधाद्याभ्यां मायासन तृतीयया ॥ ११ ॥ साद्ययैवं महाकान्तं द्वित्रयाभ्यां मनोहरम् । द्वाद्यतृतीयमूषैश्चेदेवं लक्ष्मीप्रियं भवेत् ॥ १२॥ विमुखं च चतुर्थ्यां च क्रोधनाख्यं तु साद्यया। स्वामिभक्तं द्वितुर्याभ्यां साद्यया तु धनेश्वरम् ॥ १३ ॥ विना याम्यां तु कालाख्यं विकराल चतुर्दिशम् । मनप्रियं प्रतिमूषैः षड्दारुकं च कामदम् ।। १४ ।।