________________
२४९
चतुःशालगृहलक्षणं नामानवतितम सूत्रम् ॥ साद्या: सिद्धार्थे द्विसप्तपञ्चतुर्यास्तुपूर्वके । साद्या महापूर्व ईशे सप्तपञ्चत्रितुर्यकाः ॥ ३१॥ साधास्तेजः सुतेजो द्वित्रिपञ्चसप्ततुर्यकाः । आद्यायुक्ता महातेजो गृहाः षण्णवतिर्मताः ॥ ३२ ॥
इति षण्णवतिगृहाः ॥ घोरे च षष्ठीसप्तम्यौ स्वैरे आद्यायुते तथा । पौरे द्विषष्ठीसप्तम्यः सौरे आद्यायुता मताः ॥ ३३ ॥ रौद्रे त्रिषष्ठीसप्तभ्यः साद्या: सारद्यके तथा । शके द्वित्रिसप्तषष्ठयो महाशझे तु सादिकाः ॥ ३४ ॥ षट्सप्ततुर्याश्च परे साद्यास्ताः सुपरे मताः । पक्षे द्विषट्सप्ततुर्या आद्यायुक्ताः सुपक्षके ॥ ३५ ॥ शान्ते विषट्सप्ततुर्याः सान्ते आद्यायुतास्तथा। द्वित्रितुर्या:सप्तषष्ठयावन्ते साद्यास्तु शान्तिके ॥ ३६॥ त्रिषष्ठयो पञ्चसप्तम्यौ प्रिये साद्यास्तु सुप्रिये । द्विपञ्चषट्सप्ततुर्याः सौम्ये भोक्ते च सादिकाः ॥ ३७ ॥ पञ्चमी सप्तमी षष्ठी पुण्ये साया: सुपुण्यके । द्वित्रिपञ्चसप्तषष्ठ्यः पुरे साद्याः सुपूर्वके ॥ ३८ ॥ चतुःपञ्चषट्सप्तम्य इन्द्रे साद्यास्तथा शुभे?। पञ्चषद्वित्रिसप्तम्यः कंके कांके च सादिकाः ॥ ३९ ॥ त्रिपञ्चषट्सप्ततुर्याश्चिह्न साधास्तु शुभ्रके। त्यक्ताद्या चाष्टमी साक्ष्ये सन्मुखे सादिकाऽष्टमी ॥ ४० ॥ सप्तमूषावहनाय सम्मुखाख्यं गृहं शुभम् । अष्टम्यादौ ततश्चाद्याऽष्टमीत्थं क्रमतोऽष्टमी ॥४१॥ पुनस्तेन क्रमेणैवाऽष्टाविंशत्युत्तरं शतम् । यथानाम गुणाश्चैते शुभा वा अशुभा अपि ॥ ४२ ॥ इतिसूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
चतुःशालगृहलक्षणाधिकारो नामाष्ट नवतितमं सुत्रम् ।।