________________
२४०
अपराजितपृच्छा करालं विकरालं च कबन्धं मतकं शवम् । यमसूर्यस्य भेदाः स्युः सानो महिषं तथा ॥ १६ ॥ प्रचण्डचण्डे दण्डाख्यमुद्दण्ड काण्डकोटरे । विग्रहं निग्रहं धूम्र निर्धूमं दन्ति दारुणम् ॥ १७ ॥ एकादशामी दण्डस्य भेदा दण्डभयप्रदाः । मरुत्पवनवाताख्यान्यनिलं सप्रभञ्जनम् ॥ १८॥ (घ)धनार्यम्बुद विध्वंसि प्रलयं कलहं कलिः । कलि चुल्ली च वातस्य भेदा उद्वेगकारकाः ॥ १९ ॥ रोग चुल्लयनलं भस्म चुल्ल या भेदचतुष्टयम् । काचस्य तु छलं काचं कुलनं च विरोधिकृत् ॥ २० ॥ द्वापञ्चाशद द्विशालानां नामभेदाः प्रकीर्तिताः । इत्युक्ताश्च पृथग्भेदा द्विशालानां यथाक्रमम् ।। २१ ।। द्विपञ्चाशद् द्विशालानां प्रत्यक द्विसहस्रतः।। सचतुःसहस्रलक्षं द्विशालानां तु समनाम् ॥ २२ ॥ अष्टाष्टतो द्विशालानां हादीनां पुनस्तथा । द्वात्रिंशच्च सहस्राणि चाष्ट्रलक्षाणि भेदतः २३ ।। एकशालगृहादीनामेतत्तुल्यं प्रभेदतः। चतुःषष्टिसहस्राणि व्यष्टलक्षाणि वै तथा ।। २४ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
द्विशालगृहलक्षणाधिकारो नाम चतुर्नवतितमं सुत्रम् ।।