________________
(९४) विशालगृहलक्षणं चतुर्नवतितमं सूत्रम् ॥
विश्वकर्मोवाच--
द्विशालानि द्विपञ्चाशच्छुभानि वाशुभानि च । लक्षणानि क्रमात् तेषां कथयामि समासतः ॥१॥ सिद्धाख्यं यमसूर्य च दण्डाख्यं चातसंशितम् । चुल्लीकाचं च मुख्यानि द्विशालानि प्रचक्षते ॥२॥ अनेकभेदभिन्नानि लघुप्रस्तारयोगतः। मूषाभेदक्रमेण स्युभैदा भेदक्रमेण च ॥ ३॥ तथा विलीनकरणाद् मूषा चालिन्दमार्गतः । प्रागग्रीवादिविधानेन द्विशालानि विपर्ययात् ॥ ४ ॥ यथासंभवमेतानि कथयामि समासतः। निर्वाहश्चैवमूषाणामनिर्वाहश्च नामतः ॥५॥ छन्दतो गुणतो रूपादशुभानि शुभानि च । हितार्थाय नरेद्राणां वर्णिनां लिङ्गिनामपि ॥ ६॥ हस्तिनी महिषी चेति द्वे शाले यत्र वेश्मनि । तत् सिद्धार्थमिति शेयं वित्तसंपत्तिकारकम् ॥ ७॥ मृत्युदं महिषीगावीभ्यां भवेद् यमसूर्यकम् । दण्डाण्यं छागलीगावीशालाभ्यां दण्डभीतिदम् ॥ ८॥ करेणुच्छागलीयुक्तं वातमुद्धेगकारकम् । महिष्यजाभ्यामुढेगकरी चुली धनापहा ॥९॥ काचं करेणुगावीभ्यां सुहत्प्रीतिविनाशनम् । एकमूषममूर्ष च न द्विशालेषु कारयेत् ॥ १०॥ व्यत्यासात् काचचुल्लयोश्च सर्वाभिस्तिसृभिस्तथा । चत्वार्याद्यानि भिद्यन्ते लघुप्रस्तारयोगतः ॥११॥ प्रत्येकमेकादशधा मन्दिराण्यभिधानतः। अन्ये चतुर्धा भिद्यते प्रत्येकं द्वे निवेशने ॥ १२ ॥ एषां मूषाभिधाभेदात् तबाहावाहहेतुकाः । वसुधारं भवेत् तेषामाद्यं सिद्धार्थकं ततः ॥ १३ ॥ कल्याणकं शाश्वतं च शिवं कामप्रदं सदा । स्त्रीदं शान्तं निष्कलंक धनाधीशं कुबेरकम ॥ १४ ॥ सिद्धार्थमनुजात्येवमेतान्येकादश क्रमात् । संहारं यमसूर्य च कालं वैवस्वतं यमम् ॥ १५ ॥