________________
(९५) विशालगृहलक्षणक्रमो नाम पञ्चनवतितमं सूत्रम् ॥
विश्वकर्मोवाच
३१ अ.
"
सम्प्रत्येषां च कथये लक्षणानि पृथक् पृथक् । आद्याद्वितीये वहतो यत्र मूषें धनप्रदम् ॥ वसुधाराभिधानं तद् गृहं सर्वार्थसिद्धिदम् । आद्यतृतीये वहतो यत्र सिद्धार्थकं विदुः ॥ २ ॥ सर्वोपद्रवनिर्मुक्तं सिद्धिकृचिन्तितार्थकृत् । द्वितृतीयं वहन्मूषं भवेत्कल्याणमृद्धिकृत् ॥ ३ ॥ वहदाद्यचतुर्थीकं शाश्वतं गृहमुत्तमम् । शिवं द्वितीयातुर्याभ्यां वहन्तीभ्यां सुखप्रदम् ॥ ४ ॥ कामदं त्रिचतुर्थीभ्यां भवेश्चिन्तितकामदम् । आद्याभिश्च तिसृभिश्च श्रीपदं शंप्रदं प्रभोः ॥ ५॥ आद्याद्वितीयातुर्याभिः शान्तं शान्तिप्रदायकम् । आयातृतीयातुर्याभिर्निष्कलङ्कं समृद्धिकृत् ॥ ६ ॥ द्वितृतीयाचतुर्थीभिर्धनेशं धनवर्द्धनम् । आद्याद्याभिश्चतसृभिः कुबेरं वित्तवृद्धिकृत् ॥ ७ ॥
सूर्यप्रभेदेषु कथये फललक्षणे ।
आद्याद्वितीयाभूषाभ्यां संहारं स्वामिनाशनम् ॥ ८ ॥ गृहमाद्या तृतीयाभ्यां मृत्युदं यमसूर्यकम् । द्वितीया तृतीयाभ्यां च कालं पीठविनाशनम् ॥ ९ ॥ वैवस्वतं वहत्सूर्य प्रथमं रोगकारकम् । यमालयं द्वितुर्याभ्यां स्वामिनो यमदर्शनम् ॥ १० ॥ करालं त्रिचतुर्थीभ्यां भर्तुः प्राणविनाशनम् । आद्याभिस्तिसृभिः स्वामिनाशनं विकरालकम् ॥ ११ ॥ आद्याद्वितीयातुर्याभिः कबन्धं भर्तृनाशनम् । आद्यातृतीयातुर्याभिर्भर्तृष्नं मृतकालयम् ॥ १२ ॥ शवं द्वित्रिचतुर्थीभिः स्वामिनो मरणप्रदम् । आद्याद्याभिश्चतसृभिः स्वामिनं महिषं विदुः ॥ १३ ॥ प्रचण्डं दण्डभेदेषु पूर्वया सद्वितीयया । गृहमादौ विजानीयाद् भर्तुर्नृपभयप्रदम् ॥ १४ ॥ चण्डमाद्यातृतीयाभ्यां चण्डदण्डभयप्रदम् । दण्डं स्याद् द्वितीयाभ्यां राजदण्डप्रदारुणम् ॥ १५ ॥ उद्दण्डमाचातुर्याभ्यां स्वामिनो दण्डभीतिदम् । काण्डं द्वितीयातुर्याभ्यां काण्डवभेदकारकम् ॥ १६ ॥