________________
२३६
हर्म्यादिगुणदोषो नाम ज्ञानवतितमं सूत्रम् ॥
द्राक्षामुनिकरवीरजातीतगरकुब्जिकाः । अन्यांश्च देववृक्षांश्च न कुर्यादू गृहवास्तुतः ॥ ३२ ॥ स्तम्मे मरालपक्षिण्यौ रोहतो देवताग्रतः । सन्मुखं वर्जयेद् द्वारं न च भित्यन्तरे परे ॥ ३३ ॥
गृहाणामेकशालानां शतं स्याच्चतुरुत्तरम् । द्विशालानां द्विपञ्चाशत् त्रिशालानां द्विसप्ततिः ॥ ३४ ॥
चतुःशालगृहाणां च षट्पञ्चाशच्छतद्वयम् । षड्जात्युत्पन्नभेदाश्च हर्म्यभेदा द्विरष्ट व ॥ ३५ ॥
इति सूत्र सन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवन देवाचार्योक्त पराजित पृच्छायां हर्म्यादिगुणदोषाधिकारो नाम द्वानवतितमं सूत्रम् ॥