________________
२३५
अपराजितपृच्छा गृहविस्तारकरतो ग्राह्यमेकैकमङ्गुलम् । सप्ततिः करसम्युक्तः पष्टिः पञ्चाशमेव च ॥ १६ ॥ द्वारमानं समाख्यातं ज्येष्ठमध्यकनिष्टकम् । एकशालक्रमयोगे पर्यन्तं च दशावधि ॥ १७ ॥ गृहादीनां मुखं पूर्वे भ्रमणद्वारसंयुतम्। षोडशानामतः प्रोक्तमन्यथा चिन्तयेन्न हि ॥ १८॥ प्रदक्षिणे सझमुखानलिन्दान् विद्यालधुस्थानसमाश्रितांश्च । गृहे तु पूर्वादिगतैरलिन्दर्भवन्ति चैवं दशषट् च भेदाः ॥ १९ ॥ दिशि दिशि वासाद् भागं तुर्येवंकितं द्वारं शोभनम् | माहेन्द्रगृहक्षतकुसुमदन्तभल्लाटकृतचिह्नः ॥ २०॥ उपर्युपरिभूमीनां द्वारं कुर्यात् प्रदक्षिणम् । नापसव्येन कुर्वीत राजवेश्मादिभूमिका ॥२१॥ उत्संगः पूर्णबाहुश्च हीनबाहुस्तथापरः। प्रतिकाय इति प्रोक्तं प्रवेशानां चतुष्टयम् ॥ २२ ॥ उत्तरोन्मुख उत्संग: पूर्णबाहुश्च पूर्वतः । हीनवाहुस्तथा याम्यं प्रतिकायं च वारुणे ॥ २३ ॥ दृष्टा रौद्रकरालं च भीषणं रौद्ररुतानि च । वर्जयेत्तद् गृहं चैव श्रीश्च तत्र न विद्यते ॥ २४ ॥ गृहे काककपोतादिकपिसंग्रामभीषणम् । वर्जयेद् गृहचित्रेषु श्रीश्च तत्र न विद्यते ॥ २५ ॥ तथा च लेपरूपाणि पाषाणोत्पातपट्टकम् । वर्जयेद् राजगेहेषु लक्ष्मीस्तत्र न विद्यते ॥ २६ ॥ अक्लेशां च वनस्तस्य वातरोगोऽपि जायते । पाषाणवीथिका बाह्यमन्यत्र वर्जयेत् तु ताम् ।। २७ ॥ कुम्भिकातलपट्टे च आये भ्रमणे च कारयेत् । अन्यत्र दोषदं शैलं विना वीथि तु पत्रकाः ? ॥ २८ ॥ सोपानः कुम्भिकां शैलां राजवेश्मसुखावहम् । सर्वत्र वीथिकाबद्ध आयुः कामफलार्थिभिः ॥ २९ ॥ कर्करा शर्करा शिष्टा सुधाभीरन्ध्रपूरिता। गृहे भूमिस्तु कर्तव्या विचित्रा मणिकुट्टिमा ॥ ३० ॥ बदरी कदली चैव हीक्षुदण्डश्च दाडिमी । यत्र गृहे प्ररोहन्ति तद् गृहं न प्ररोहति ॥ ३१ ॥