________________
(९२) हर्म्यादिगुणदोषो नाम दानवतितमं सूत्रम् ॥
विश्वकर्मोवाच
पञ्चभागद्विभागं च सप्तभागात्रिभागकम् । नवभागचतुर्भागं शालालिन्दप्रमाणकम् ॥ १ ॥
चतुर्हस्ता भवेच्छाला द्वात्रिंशद्धस्तकं गृहम् । तथैकभूमितः कुर्याद् यावत्सा वै त्रिभूमिकम् ॥ २ ॥ एकशालं गृहमाद्यमन्तिमं दशशालकम् । शालान्तरेषु च ततो भेदाश्चैवमनेकधा ॥ ३ ॥
अष्टाविंशतिर्हस्ताश्च ह्यष्टादश तथाष्ट च । कुर्यात् त्रिधोदयं यावत् फलकं चाग्रभूमिके ॥ ४॥
षण्णवतिश्चतुरशीतिद्वसप्ततिरेव च । षोडशांशयुतं चैव गृहं तु त्रिविधोदयम् ॥ ५ ॥ पटून वै त्रिस्थानोर्विस्मृतं सजितोदयम् ? | टू चन्द्राष्टक विंशत्या चैकपाषाणमन्दिरे ? ॥ ६॥ वेदवसुरंगुलर्वह्नि संस्थानके रिषु चन्दा रूपदन्त्यौ रिषुयुक्तोहयम् । उत्तमं मध्यम कन्यर्स जायते मध्यमादयम् ? ॥ ७ ॥
पक्षे सप्तेंगुलैराश्व संस्थानं युक्तं तिथिम् । मूर्छनारिषयुक्तोदहर्यं ? । उत्तममध्यमकन्यसं जायते कन्यसोदयम् ॥ ८ ॥ हस्तिनी महिषी चैव गावी च छागली तथा । पदानां तु दिशाभेदैः प्राच्यादिषु प्रदक्षिणम् ॥ ९ ॥ हस्तिनी चेन्द्रसंस्थाने महिषी च यमस्थले । गावीच वरुणस्थाने सौम्यस्थाने तु छागली ॥ १० ॥
परस्परप्रकारेण कर्तव्यास्तु विचक्षणैः । तत्राग्रमग्नौ दातव्यं भाषितं विश्वकर्मणा ॥ ११ ॥ द्वितीया च नैर्ऋत्यां तृतीया च मारुते । चतुर्थ्यग्रमीशकर्णे कर्तव्या किल सर्वदा ॥ १२ ॥ गावी श्रेष्ठा चोपरिष्टात् सर्वाः स्युर्वाथ हस्तिनी । एतासां पट्टसंयोगैर्भवनानि पृथग् विदुः ॥ १३ ॥ पदाधस्तात् तथालिन्दा ? तुलाभिः क्षणसंज्ञकाः । ज्ञातव्या वै गृहच्छन्दाः स्वयंभू कथिताः पुरा ॥ १४ ॥ द्वारं सर्वग्रहाणां च पदस्थानेषु दापयेत् । तुलाधस्तान्न दातव्यं भाषितं विश्वकर्मणा ॥ १५ ॥