________________
चतुरुत्तरशतैकशालगृहलक्षणमेकनवतितमं सूत्रम् ॥
प्रभवं भाविक क्रीडं तिलकं क्रीडितं शुभम् । यशोदं कुमुदं कालं भासुरं सर्वभूषणम् ॥ २९ ॥ वसुधारं धनहरं कुपितं वित्तवृद्धिदम् । कुलोदयं समाख्यातं गुणदोषाश्च पूर्ववत् ॥ ३० ॥
इति प्रभवादिषोडश ॥
अनन्तरं मया यानि गृहाण्युक्तानि षोडश || चतुर्दिशमलिन्देन परिष्कुर्यात् पृथक् पृथक् ॥ ३१ ॥ भेदजानि तु यानीह शृणु तानि समासतः । चूडामणि प्रभद्रं च क्षेमं शेखरमुद्भवम् ॥ ३२ ॥ निरामयं सुलाभं च रौद्रं मेघं मनोरमम् । सुभद्रं चेति गेहानां गुणाद्यमभिधानतः ॥ ३३ ॥ गृहाणामेकशालानां शतं स्याच्चतुरुत्तरम् । एकैकोत्पन्नभेदाश्च शतैश्चदशभिस्ततः ॥ ३४ ॥ स चतुः सहस्रलक्षमे कशालाख्यवेश्मनाम् । तृणच्छन्दः पट्टच्छन्दः पूर्णच्छन्दश्च पाण्डुकम् ॥ ३५ ॥ खण्डच्छन्दो वाजिच्छन्द इतिषड्जातिवेश्मनाम् । षोडशैव प्रभेदाश्च वर्तन्ते परिवर्तनात् ॥ ३६ ॥
इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवनदेवाचार्योक्ता पराजित पृच्छायां चतुरुत्तरशतैकश|लगृहलक्षणाधिकारो नामैकनवतितमं सूत्रम् ॥
२३३