SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ २३२ अपराजितपृच्छा क्षये सर्वक्षयो घोर आक्रन्दं शातिमृत्युदम् । आरोग्यं विपुले ख्यातिर्विजये सर्वसंपदः ॥ १५॥ इति ध्रुवादिषोडश ॥ रम्येषु द्वितीयोऽलिन्दो धान्यादिर्विजयान्तगः । तेषां भेदाः पुनश्चेत्थमष्टधास्तु प्रकीर्तिताः ॥ १६ ॥ रम्यं श्रीधरं मुदितं वर्धमानं करालकम् । सुनाम ध्वाक्षं समृध्धमिति रम्याष्टकं गृहम् ॥ १७ ॥ इति रम्याष्टकं गृहम् ॥ शालामध्ये ध्रुवादीनां न्यासे षड्दारकस्य च । अन्ये भेदाः पुनस्तेषां षोडशेष प्रकीर्तिताः ॥ १८ ॥ - - - - - - - - । - - - - - - - -- ॥ १९ ।। सुन्दरं वरदं भद्रं प्रमोद विमुखं शिवम् । सर्वलामं विशालं च विलक्षमशुभं ध्वजम् ॥ २० ॥ उद्योतं भीषणं शून्यमजितं कुलनन्दनम् । प्रशस्तान्यप्रशस्तानि यथानामफलानि च ॥ २१ ॥ इति सुन्दगदिगृहपोडश ॥ पूर्वालिन्देषु सर्वेषु कार्य षड्दारुकं पुरः । षोडशैव पुनर्भेदा हंसाद्या अपरे मताः ॥ २२ ॥ हसं सुलक्षणं सौम्यं जयन्तं भव्यमुत्तमम् । रुचिरं संभृतं शेममाक्षेमं सुकृतं वृषम् ॥ २३ ॥ उच्छन्नं व्ययमानन्दं सुनन्दं चेति कीर्तितम् । यथाविधं गुणदोषा हंसादीनामुदाहृताः ॥ २४ ॥ __ इति हंसादिगृहषोडश ॥ पदारुकं परित्यज्य धृवादिक्रमसंस्थिती । शालामध्येऽपवरकं धनदं स्यादतः स्थितम् ।। २५ ॥ अलङ्कृतमलङ्कारं रमणं पूर्णमम्वरम् । पुण्यं सुगर्भ कलशं दुर्गतं रिक्तमीसितम् ॥ २६ ॥ सुभद्रं वञ्चितं दीनं विभवं सर्वकामदम् । यथार्थनामतश्चैषान् गुणदोषान् प्रकल्पयेत् ॥ २७ ॥ षड्दारुक शालामध्येऽपवराणि ततः परम् । एभ्योऽपरे गृहा: प्रोक्ताः प्रभवाद्यास्तु षोडश ॥ २८ ॥
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy