________________
(९३) युग्महं सविमलगृहद्वात्रिंशद्भेदलक्षणं त्रिनवतितमं सूत्रम् ॥
विश्वकर्मोवाच
हस्तिनी महिषी गावी छागली च यथाक्रमम् । युग्मतः कथिताश्चैता हंसाद्या विमला गृहाः ॥ १ ॥ द्विहं च द्विचक्रं च द्विसारसमथापिवा । द्विकोकिलमिति तथा हस्तिन्याद्याः प्रकीर्तिताः ॥ २ ॥ चतुरस्त्रं समं कृत्वा त्रिपुटे नवकोष्ठकम् । मध्यकोष्ठपदं त्यक्त्वा शालायुग्मे प्रतिष्ठिताः ॥ ३ ॥ दक्षिणस्यामथाऽऽग्नेय्यां हस्तिन्युत्तरदिङ्कुखा । पितृवारुणसंयोगा महिषी चैन्द्रदिखा ॥ ४ ॥
याम्यमुखा तथा गावी सौम्यमारुतसंस्थिता । वारुणाभिमुखा रास्ता ऐन्द्रे रौद्रेच छागली ॥ ५॥
मुखालिन्दे श्रीधर याम्याम्रे तु जयावहः । प्रदक्षिणं श्रीजयश्च मुखयुग्मस्तु कामदः ॥ ६॥ याम्यप्रमुखालिन्दे तु जयन्तो नाम शोभनः । युग्मालिन्दे विशालश्च कर्तव्यः सुप्रदक्षिणम् ॥ ७ ॥ अप्रे तृतीयालिन्देषु सो भवेत् सोमसम्भवः । क्रमद्वारे च हस्तिन्या युग्माष्टक गृहा मताः ॥ ८ ॥ तद्रूपं तादृशाकारं दिङ्मुखाद्य भिधानकम् । अष्टाष्टधा च प्रत्येकं कथयाम्यपराजित ॥ ९ ॥ गजं भीमं पराक्रमं जयन्तं भासुरं तथा । वसिष्ठं च समुद्रं च महिषीपृष्ठसम्भवम् ॥ १० ॥ सुनाभं वर्तकं सौम्यं चन्द्रतेजश्च दीपकम् । कुलद्योतं सुनेत्रं च गावीपृष्टनिवासिनाम् ॥ ११ ॥ पाशुपतं महाकान्तं सुतेजस्तेजोवर्द्धनम् । वामनं दस्युघातं च रुद्रतेजः समुद्भवम् ॥ १२ ॥
छागलीपृष्ठकोच्छ्राये गृहाएवं प्रकीर्तिताः । अष्टावष्टौ प्रतिदिशं द्वात्रिंशच्च गृहा मताः ॥ १३ ॥
हस्तिनी हंससम्भूता गावी सारससम्भवा । छागली कोकिलोद्भूता महिषी चक्रवाकजा ॥ १४ ॥