________________
(९०) वाद्यशालालक्षणं नवतितमं सूत्रम् ॥
विश्वकर्मोवाच
वाद्यशालाः प्रवक्ष्यामि आश्रिता राजवेश्मनि । द्वात्रिंशद्धस्तविस्ताराश्चतुर्वद्धिरनुक्रमात् ॥१॥ मण्डपा नव सङ्ख्याताश्चतुःषष्ट्यन्त हस्ततः । पृथगेकैकशः प्रोक्ताः कथयिष्याम्यनुक्रमम् ॥ २॥ मण्डपा द्वार एवोक्ताः प्राकारपरिवेष्टिताः। अग्रे च पोलिकायुक्ताः कपाटेश्च दृढार्गलाः ॥ ३॥ विमानः पुष्पको भद्रो गरुडश्चारुवर्द्धनः। सिद्धिकामो रसः कान्तो विचित्रस्तेजस्संभवः ॥ ४॥ मण्डपा नव चेत्येवं विमानाद्याः प्रकीर्तिताः । द्वात्रिंशद्धस्तकश्चाद्यः क्रमाद्धिश्चतु:करैः ॥ ५॥ चतुःषष्टिकरा अन्ते द्वात्रिंशद्भिर्विमानकाः । अन्ते तेजस्सम्भवाख्यश्चतुःषष्टिकरैश्च सः ॥६॥ मध्ये च वेदिकां कुर्यादष्टहस्तप्रमाणतः । तत्रैव स्थापयेद् देवं भैरवं योगिनीस्तथा ॥ ७ ॥ देवीश्च क्षेत्रपालं च जिनेन्द्रसिद्धमूर्तिकाः। देवक्रमात्पूजयेश्च योगिनीश्च कुमारिकाः ॥ ८॥ विप्रादान्दर्शयञ्चैव स्थावरं जङ्गमं तथा । तदाक्षा च गृहीतव्या तत्र कर्म समाचरेत् ॥९॥ तत: प्राकारमध्य तु स्थापयेच महोषधीः । श्वेतरक्तपीतकृष्णैः पुष्पकाले प्रभेदिताः ॥ १० ॥ कटुतिक्तकषायाम्ललवणैर्मधुरेण च ।
औषधीलक्षयोहिन्या वर्गेरास्वादनैस्तथा ॥११॥ कोटिकायाः सूकरैश्च धमनीनलिकायसैः।। संडिशानि विविधानि काकचञ्च्वाकृतीनि च ॥ १२ ॥ ग्रादुकां कर्तरायुक्तां हस्तवडानि हारिणी । खल्वे च मर्दनं कुर्याद् यन्त्राद्विविधधारिकाः ॥ १३ ॥ धातवोऽष्टाऽष्ट लोहानि विविधान्यौषधानि च । मूषाभेदक्रमोक्तं च रत्नं स्याद् वनकादिकम् ॥ १४ ॥