________________
२३०
अपराजितपृच्छा मृत्तिका करणी श्रेष्ठा वज्रमूषादिकोद्भवम् । हृदि वित्तैदृढात्मा च एकीभूतमनास्तथा ॥ १५ ॥ सद्गुरूणां पाभत्क्या गुरूपदेशग्राहकः । मुक्तमत्सरकोपश्च सप्रियो जनवत्सलः ॥ १६ ॥ पारदग्धा स्तोकदग्धा अदग्धा बालकर्तिका । स्वरबिन्दुसमायुक्तं वज्रमूषस्य लक्षणम् ॥ १७ ॥ घटिका करिकाकारा मत्तिकाश्च सुयोजयेत् । त्रीणि त्रीणि पुनस्त्रीणि तथा चत्वारि पञ्च च ॥ १८ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
वाद्यशालालक्षणाधिकारो नाम नवतितमं सूत्रम् ।।