________________
(८९) जलंयन्त्रलक्षणकमेकोननवतितमं सूत्रम् ॥
विश्वकर्मोवाच
पदैर्वादशभिर्वास्तु योजयेज्जलयन्त्रके। पदस्थाने तथा देवान् पश्चात् कर्म समाचरेत् ॥ १॥ कृते सप्तपदे क्षेत्रे ब्राह्यभद्रं पदत्रये । विंशतिस्तम्भसम्युक्तं पदिका स्तम्भशालिका ॥२॥ मध्ये चतुष्किका कार्या ब्रह्मणः पदमाश्रिता। वेदिकास्तत्र कर्तव्याश्चतुर्विंशतिपाद्युताः ॥ ३॥ घास्तुं प्रपूजयेत्प्राझो जलयन्त्रोचितं तथा । षोडशाविसमायुक्तमन्यथा दोषकृद् भवेत् ॥ ४ ॥ चतुरश्रं समं क्षेत्रं स्तम्भैदशभिर्युतम् । पद्माकृति शुभं मध्ये जलयन्त्रं तु सुव्रत ॥ ५॥ अनभावृष्टिः कर्तव्या आयुवास्तुसमन्वितम् । मानाविचित्ररूपाणि चतुर्दिक्षु प्रकल्पयेत् ॥ ६॥ चतुर श्रीकृते क्षेत्रे सप्तभागविभाजिते । भद्राणि त्रिपदानि स्युः कोणे कूपाश्च कारयेत् ॥७॥ विषमाः कृपिका: कार्याः समा वै दोषदास्तथा। यन्त्रतो द्विगुणोच्छायं त्रिगुणं च तथायते ॥ ८॥ अधस्तात्तु पुनमध्ये धाराख्यं मण्डपं शुभम् । स्तम्भैदिशभिर्युक्तमेकेन कलशेन च ॥९॥ चतुष्किकाश्चतुर्दिश्च द्वौ द्वौ स्तम्भौ च कल्पयेत् । करोटकं समायुक्तं कलशैश्चैकपष्टिभिः ॥ १०॥ रथिकाकूटघण्टाभिः सुवृत्तं शुकनासकैः । भ्रमय दर्शयत्तोयं विचित्रैमणिकुट्टिमैः ॥ ११ ॥ तद्बाहातस्तु प्राकारं कपिशीर्षविवर्जितम् । हट्यन्त्रसमाकीर्ण सजलैः सारणैर्युतम् ॥ १२ ॥ परिखा तत्र बाह्ये तु सप्तहस्तप्रमाणतः । काननं त्वेवमाख्यातं नृपाणां कीडनार्थकम् ॥ १३ ॥ ग्रीमे क्रीडां प्रकुर्वन्ति नृपा नरसमन्विताः। षडालीनां च मध्यस्थं प्रविष्टा क्रीडमानसैः ॥ १४ ॥