________________
२२६
अपराजितपृच्छा क्रीडापुष्करिण कार्या नागवल्ली च वारुणे । तथा भल्लाटके वंशाः प्रोक्ताः पातालमापकाः ॥ १६ ।। द्राक्षाभिर्मण्डपं सौम्ये नारिकेलोपशोभितम् । ईशाने शिववृक्षं च देवदारुं प्रकल्पयेत् ॥ १७ ॥ हयमारं चक्रचारं पर्जन्ये नाऽप्रसंशयः। जये कदम्बोऽश्वत्थश्च सत्ये कुर्याच्च पाटलान् ॥ १८ ॥ भशे श्यामलिका शेया न्यग्रोधाश्चान्तरिक्षके । इन्द्रपुष्पास्तथा चाग्नौ ईश्वरी चैव पूषणि ॥ १९ ॥ जम्बुवृक्षश्च वितथे गन्धर्व च हरीतकी । आकीर्णाः पनसा भृगे खजूरा मृगराण्मुखे ॥ २० ॥ हिङ्गल्युटुम्बरौ पित्र्ये तिलको नन्दिके तथा । शुभाः कपित्थाः सुग्रीवे भू? पाखोटैस्तथाऽसुरे ॥ २१ ॥ शेषे पिप्पलिका ज्ञेया शिरीषा पापयक्ष्मके । औषधी रोगसंस्थाने नागे टंकारिपाटलाः ॥ २२ ॥ मुखे च वंशतिलकाः शैले वै बीजपूरकाः। अदितौ ग्रन्थिपर्णश्च कुङ्कुमश्चाधिको भवेत् ॥ २३ ॥ शतपत्रं दितौ ज्ञेयं शेषा वै पद्वाहातः । महेन्द्रादित्ययोरं प्रतिसन्धौ न संशयः ॥ २४ ॥ प्रवेशो निर्गमस्तावद् ज्ञातव्यस्तु सदा बुधैः ।। विषवृक्षस्तथा रक्ष्यः कटुकैः कण्टकान्वितैः ॥२५॥ देवतापदवृक्षांश्च योऽन्यथा विनियोजयेत् । तस्य राष्ट्रे शरीरे च निर्दिशेद्रोगतो भयम् ॥ २६ ॥ इदृशेन विधानेन उद्यानं यस्तु कारयेत् ।। लभते शाश्वतान् भोगान् यथेन्द्रश्चामरालये ॥२७॥ यदि न प्राप्यते वत्स चन्दनादि महीतले । सुलभास्तत्र संयोज्या: प्रशस्ता लक्षणान्विताः ॥ २८ ॥
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
धारा गिर्युद्यानलक्षणाधिकारो नामाष्टाशीतितमं सूत्रम् ।।