________________
(८८) धारागिर्युयानलक्षणमष्टाशीतितमं सूत्रम् ।।
विश्वकर्मोवाच
धारागृहं प्रवक्ष्यामि वाटिकानां च लक्षणम् । पुरस्यान्तरतो वत्स ज्ञात्वा भूमि विशोधयेत् ॥ १ ॥ वाटिका रोपयेत्तत्र ज्येष्ठमध्यकनिष्ठिकाः । धनुःशतत्रये ज्येष्ठा मध्या धनुःशतद्वयात् ॥ २॥ धनु: शतैः कनिष्ठा स्याच्चतुरथा च भूमिका।। सषण्णवतिशतपाद् वास्तौ देवान् समर्चयेत् ॥३॥ योगिनीर्दश नाना ? च ब्रह्माणं च कुमारिकाः । सूत्रधारमथाचार्य क्षेत्रपालं च भैरवम् ॥ ४॥ विश्वकर्मा ततः पूज्यो दिक्पाला लोकपालकाः। गणनाथश्चण्डिका च तस्य क्षेत्रस्य देवताः ॥५॥ क्षमापयेत् सर्वदेवान् ततः कर्म समाचरेत् । विविधक्षेत्रमानेन तत्र वास्तुं प्रकल्पयेत् ॥ ६ ॥ ब्रह्मक्षेत्रे प्रकर्तव्यं धाराख्यं मण्डपं शुभम् । केतकीबहुलारम्भाः पुष्पजातिरनेकधा ॥ ७ ॥ श्रीजातिस्तु लवङ्गानि एलाकर्पूरपादपाः । चन्दनाश्चैव ककोला ब्रह्मस्थाने प्रकल्पिताः ॥ ८॥ प्राच्यामुत्तरपर्यन्तं वास्तुकारो निवेशयेत् । विटपाद्रिलतावल्लीः कुर्याद् द्वौसता?स्थिताः ॥९॥ स्थानेऽयम्णस्तु नारंगा: सवितुर्नलिकानि च । सावित्रे च पदेऽक्षः स्याद् दाडिमास्तु विवस्वतः ॥ १० ॥ कुर्यात् शीतलं चैन्द्रेऽशोकमेन्द्रजये पदे। मैत्रस्थाने व जम्बीरा रुद्रे तालतमालकाः ॥ ११ ॥ रुद्रदासेऽभयां प्राज्ञ आसूकं भूधरे पदे । विद्यान्मधूकमापे च आपवत्से च चम्पकम् ॥ १२ ॥ माहेन्द्र मण्डपं कार्य कदलीवनशाभितम् । गृहक्षते च बृहती द्राक्षामण्डपमुत्तमम् ॥ १३ ॥ पत्ररैलङ्कृतं चाक्षवृक्षः सावित्रमाश्रितः । - -
---॥१४॥ अम्बालिकापुष्पयुक्तं पुष्पदन्ते तु मण्डपम् । आदित्ये जलपत्रं च स्थल पद्मोपशोभितम् ॥ १५ ॥