________________
२२४
अपराजितपृच्छा चतुर्थभूम्यूर्ध्वमाडाः स्युः सार्धनवभूमिकाः । शत्रून्मर्दयते शीघ्र नाम्ना वै शत्रुमर्दनः ॥ ६९ ॥
इति शत्रुमर्दनः॥ छन्दा माडो मोडशुद्धौ शेखरो वेदसङ्ख्यकाः । प्रोतास्तु राजवेश्मानि वर्धन्ते श्रीधरादितः ॥ ७० ॥ सर्वे स्युस्ते समालिन्दा माडाछन्दाद् भवन्ति ये । अत ऊचे संवरणा घण्टाकलशभूषिताः ॥ ७१ ॥ क्षेत्रस्यात्र दशांशेन आदिभूमिः समुच्छ्तिा । त्रिभागेश्चैव तद्भमेरस्य तूदयो भवेत् ॥ ७२ ॥ आदिभूम्युदयार्धेन पीठं चास्य समुचितम् । पीठो भूमय: शेषा द्वादशांशेन हासिताः ॥ ७३ ॥ दण्डच्छाद्यं मल्लच्छाचं मुखपत्रैर्विभूषितम् । रिङ्गिणीपट्टसंयुक्तं कर्तव्यं मल्लच्छाद्यकम् ॥ ७४ ॥ वस्त्रवितानकोपेतं सुवर्णकलशान्वितम् । तस्करसमराधं च भेदं यत्नेन वर्जयेत् ॥ ७५ ॥
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
महाराजगृहमाडलक्षणाधिकारो नाम सप्ताशीतितम सूत्रम् ॥