SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ महाराजगृहमाडलक्षणं सप्ताशीतितमं सूत्रम् ॥ मध्यभित्तिं परित्यज्य भद्रं भद्रेषु योजयेत् । कार्याणि पक्षभद्राणि अग्रभद्रोपमानि च ॥ ५६ ॥ चत्वारि मुखभद्राणि चत्वारः कर्णसम्पुटाः । सार्धसतक भूम्यश्च श्रीतिलकः स कामदः ॥ १७ ॥ इति श्रीतिलकः ॥ भद्रं त्यक सम्पुटे च पत्रिंशत्पदसंस्थितः । मुखभद्रं नवपदमुत्तुङ्गः पूर्व भूमिकः ॥ ५८ ॥ इत्युक्त्तङ्गः ॥ चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते । एकाशीतिपदो गर्भो ह्यर्धभागा च भित्तिका ॥ ५९ ॥ सप्तसप्तपञ्चत्रीणि पदसङ्ख्या तु भद्रके । स्तम्भा भद्रे चतुस्त्रिंशच्छतस्तम्भास्तु मध्यतः ॥ ६० ॥ साप्तभूमिकाच नाम्ना स कमलोद्भवः । पद्मपत्रोपमा चैव नित्यं श्रीस्तत्र क्रीडति ॥ ६६ ॥ इति कमलोद्भयः ॥ सप्तचाऽऽयामविस्तारे भद्रं स्याश्च चतुर्दिशम् । षट्पदानि प्रतिभद्रे त्रीणि त्रीणि च भद्रके ॥ ६२ ॥ चतुरशीतिस्तम्भके च शतं वै गर्भमध्यतः । तृतीयभूर्ध्वे माडाच सार्धसप्तकभूमिकाः ॥ ६३ ॥ इति रतिग्रहः ॥ मुखभद्रं पुनर्दद्यात्स्तम्भद्वयविभूषितम् । पूर्वभूमिगुणोपेतो भवेत् सिद्धार्थकः स च ॥ ६४ ॥ इति सिद्धार्थकः ॥ मुखभद्रं परित्यज्य मूलभद्रं च पूर्ववत् । अग्रकर्णे तु चत्वारि श्रीगृहाकारवत्तथा ॥ ६५ ॥ भित्तिकर्णलताञ्चाष्टौ द्विपदाश्च प्रकल्पयेत् । चतुर्भूम्यूर्ध्वमाडांश्च तथा सार्घा भूमिकाः ॥ ६६ ॥ इति मन्मथः ॥ प्रतिभद्रे मुखभद्रं षट्स्तम्भैस्त्रिपदैस्तथा 1 विच्छिन्नांश्च चतुः कर्णान् कुर्यात् प्रतापवर्द्धनम् ॥ ६७ ॥ लक्ष्मीविलासके चाग्रे भद्रे भद्रे विच्छिन्नता । अष्टौ माडास्तस्य बाह्ये महामाडो घोभवः ॥ ६८ ॥ २२३
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy