________________
२२३
अपराजितपृच्छा
चतुरश्री कृते क्षेत्रे करशतोद्ववेदश्रुकम् ? । अष्टाष्टकविभक्ते तु गर्भः स्यात्सप्तभागतः॥ ४३ ॥ अष्टभागा भवेद् भितिश्चतुरोपशोभिता। पञ्चविंशत्यज्रि भद्रं स्तम्भाः षट्त्रिंशदुत्तमाः ॥४४॥ प्रतिभद्रत्रिक भद्रे षट् स्तम्भाः प्रतिभद्रके। द्विःषत्रिंशच्चैव भद्रे भनेषु स्युद्धिसप्ततिः ।। ४५॥ तत्तुल्यानि च भद्राणि चतुःषष्टिस्तु स्तम्भकाः । तृतीयभूचे माडाश्च सार्ध षड्भूमिकास्तथा ॥ ४६ ॥
इति क्षोणीभूषणः ॥ प्रत्येकं त्रिपदं भद्रं मुखे कुर्यात्समन्ततः । एकपादं मुखभद्रं सर्वदिक्षु तथाग्रतः ॥ ४७ ॥ भद्रे स्तम्भास्तु षट्षष्टिश्चतुःषष्टिस्तु मध्यतः । गृहराजस्तु तन्नाम सार्धषड्भूमिकश्च सः ॥४८॥
___ इति गृहराजः॥ नवपादं प्रतिभद्रं मुखभद्रत्रयं पदम् । तृतीयभू माडाश्च सार्धसप्तकभूमिकाः ॥ ४९ ॥
इति सिद्धिकामः॥ कक्षयोर्भद्रभित्ती द्वे द्विपदो कर्णयोस्तथा। पदार्धन भित्तिकोणमूर्वे तु भूमिकावधि ॥ ५० ॥ भद्राप्रकर्णयोश्चैव पञ्चपास्वस्तिकाकृतिः । दशभूचे चैव शेषाः सुग्रीवसदृशास्तथा ॥ ५१ ॥ कर्णयोश्चैव चत्वारोऽन्त गैश्च विनिर्गताः । अशीतिस्तम्भभद्रेश्च सार्धसप्तकभूमिकाः ॥ ५२ ॥
___ इति नन्दिघोषः अचाल्यपक्षभद्राण्यश्वतारं मूलभद्रकम् । निर्गमश्चैव षड्भागः पूर्वभूमिसमोच्छूितः ॥ ५३॥
___ इति त्रिकूटः॥ त्यक्त्वा च कर्णभद्राणि मूलभद्रविनिर्गतम् । त्रिभागं नवनिष्काशं तारग् भित्तिः पुनस्त्रिभिः ॥ २४ ॥ पष्टितम्भाः प्रतिभद्रे चतुःषष्टिस्तु मूलके । तत्तुल्यं च भवेन्मध्ये सार्धसप्तकभूमिकाः ॥ ५५ ॥
इति वसुधाधरः॥