________________
२२१
महाराजगृहमाडलक्षणं सप्ताशीतितमं सूत्रम् ॥ पञ्चविंशतिपात्क्षेत्रे स्तम्मा: षट्त्रिंशदेवच । पदिका तस्य भित्तिश्च चतुर्झरोपशोभिता ॥ ३० ॥ पादं पादं मुखभद्रं त्रयं भद्रं नवाधिकम् । भद्रे द्वाविंशतिः स्तम्भा अधाशीतिश्चतुर्दिशम् ॥ ३१ ॥ सचतुर्विशतिशतं स्तम्भा बाह्ये तथाऽन्तरे । तृतीयभूइँ माडाश्च सार्धपञ्चकभूमिकाः ॥ ३२॥
इति श्रीनिवासः॥ पूर्वभद्रं नवपदं त्रिपदं मुखभद्रकम् । भद्रेस्तम्भाश्चतुस्त्रिंशत् षट्त्रिंशदुत्तरं शतम् ॥ ३३ ॥ घाह्याभ्यन्तरतः स्तम्भा द्वासप्तत्युत्तरं शतम् । तृतीयभूचे माडाश्च सार्धषड्भूमिकास्तथा ॥ ३४ ॥
इति विमुक्तः॥ त्यक्त्वा भित्ति मध्यक्षेत्रे सप्तांशैर्विस्तुतायतम् । पञ्चविंशतिपाद्भद्रे त्रिकं च मुखभद्रके ॥ ३५ ॥ मध्ये स्तम्भाश्चतुःषष्टिः षट्त्रिंशद् भद्रके तथा । बाह्याभ्यन्तरतः स्तम्भा अष्टाधिकशतद्वयम् ॥ ३६॥ तृतीयभूधे माडाश्च सार्धषड्भूमिकाः स्मृताः। पुष्पबाणादिकोपेतो भवेत्कुसुमशेखरः ॥ ३७॥
इति कुसुमशेखरः ।। द्विपादमुखभद्राणि त्रिपदं सर्वतो भवेत् । अष्टाविंशत्यधिकं च स्तम्भा भूम्यश्च पूर्ववत् ॥ ३८ ॥
इतीन्द्रनीलः ॥ पूर्वभद्राणि संत्यज्य विभागैर्भद्रनिर्गमः । भद्रं तदुभयपक्षे त्रिभागायामविस्तरः ॥ ३९ ॥ षष्टिस्तम्भाः प्रतिभद्रं चतुःषष्टिस्तु मध्यमे । शतत्रयं च चत्वारः स्तम्भा बाह्य तथान्तरे ॥४०॥ सार्धषड्भूमिकाश्चाथ भद्राणि श्रीगृहे तथा। समस्तं पुष्पकाकारं विमानं नुपशान्तिदम् ॥ ४१ ॥
इति विमानम् ॥
भद्रभद्रेषु सर्वेषु पदिक मुखभद्रकम् । पूर्वभूमिसमत्वेन नाम्ना दिग्भद्रकं च तत् ॥ ४२ ॥
इति दिग्भद्रम् ॥