________________
२२०
अपराजितपृच्छा गुणरागान्विता भितिश्च्छाद्यद्वाराणि यानि तु। तत्र छाद्यत्रयं कार्य वेदीघण्टासमन्वितम् ॥ १६ ॥ ज्वलद्रौप्यासनं वेद्यां मत्तावरणभूषितम् । अर्धोदये प्रकर्तव्यो माडः श्रीधर उत्तमः ॥ १७ ॥
इति श्रीधरः॥ एतस्मिन्नेव संस्थाने सीमासूत्रविधिर्भवेत्। निर्गमः सूत्रमानेन भद्रान्तस्य विधीयते ॥ १८ ॥ द्वादशस्तम्भसंयुक्त एकद्वारेण भूषितः । सार्धभूमिसमायुक्तः श्रीगृहः श्रीविवर्द्धनः ॥ १९ ॥
___इति श्रीगहः॥ प्रतापवर्द्धनस्येवं लक्ष्म साम्प्रतमुच्यते । पञ्चविंशतिहस्तैश्च सार्धभागत्रयाङ्कितम् ॥ २०॥ चत्वारो मध्यत: स्तम्भा द्वादशालिन्दभागतः । पादा भित्तिर्विधातव्या चतुर्धारोपशोभिता ॥ २१॥ भद्रभागाश्चतुर्दिक्षु चतु:स्तम्भविभूषिताः। द्वात्रिंशत्स्तम्भकैर्युक्तो बाह्याभ्यन्तरतस्तथा ॥ २२ ॥ द्वितीयभचे माडाश्च सार्धभूमित्रयोच्छिताः। प्रतापकीर्तिकृन्नित्यं प्रतापवर्द्धनाभिधम् ॥ २३ ॥
इति प्रतापवर्धन: ॥ प्रतापवर्द्धने भद्रं त्रिभागं चैव विस्तरे । मुखभद्रं चैकभागं दशस्तम्भसमन्वितम् ॥ २४ ॥ माडं द्वितीयभूभ्यूचे सार्थपञ्चकभूमिकम् ।। लक्ष्मीश्च रमते तत्र लक्ष्मीविलास उच्यते ॥ २५ ॥
इति लक्ष्मीविलासः ॥ त्रिभागायामविस्तार: पदिकं मुखभद्रकम् । त्रीणि स्युर्मुखभद्राणि स्तम्भा द्वाविंशतिस्तथा ॥ २६ ॥ बाह्याभ्यन्तरतः स्तम्भाः शतं च चतुरुत्तरम् । तृतीयभूचे माडाश्च सार्धषड्भूमिकास्तथा ॥ २७ ॥
इति त्रैलोक्यविजयः॥ मध्यभित्ति परित्यज्य तत्र भद्राणि योजयेत् । त्रिभागायामविस्तारो भद्रं द्वादशद्वारकम् ॥ २८ ॥ श्रीगृहच्छन्दकाकारे चतुःषष्टिस्तु स्तम्भकाः। तृतीयभूधे माडाश्च सार्धपञ्चकभूमिकाः ॥ २९ ॥
इति नन्दनः।