________________
(८७) महाराजगृहमाडलक्षणं सप्ताशीतितमं सूत्रम् ॥
विश्वकर्मोवाच
इदानीमभिधास्यामि यथावदनुपूर्वशः । महाराजगृहाः सर्वे जयश्रीकीर्तिवर्धनाः ॥ १॥ श्रीधरः थीगृहश्चैव प्रतापवर्धनस्तथा । लक्ष्मीविलासकश्चैव त्रैलोक्यविजयस्तथा ॥२॥ नन्दनः श्रीनिवासश्च विमुक्तः पुष्पशेखरः। इन्द्रनीलो विमानश्च दिग्भद्रः क्षोणीभूषणः ॥३॥ गृहराजः सिद्धिकामो नन्दिघोषस्त्रिकूटकः। धराधर: धीतिलक: उत्तुङ्गः कमलोद्भवः॥४॥ रतिगृहश्च सिद्धार्थः पृथिवीजयमन्मथौ। शत्रुमर्दननामा च षड्विंशतिरितिस्मृताः ॥५॥ अष्टोत्तरशतं ज्येष्ठ नवतिज्येष्ठमध्यमम् । सप्ततिः कनिष्ठज्येष्ठं त्रिविधं ज्येष्ठमुच्यते ॥ ६ ॥ पष्टिश्च मध्यमे ज्येष्ठं पञ्चाशन्मध्यमध्यमम् ।। कनिष्ठं मध्यमं ज्ञेयं चत्वारिंशच्च सङ्ख्यया ॥७॥ अधमेऽप्रयं पञ्चत्रिंशन मध्यं त्रिंशत्कनिष्ठके। कनिष्ठं च कनिष्ठे स्यात् पञ्चविंशतिहस्तत;॥ ८॥ एकैकं त्रिविधं चेत्थं ज्येष्ठमध्यकनिष्ठकम् । त्रिधा च पुनरेकैकं सप्तविंशतिमानकम् ॥९॥ श्रीधरं श्रीगहं चैव शोभार्थ कारयेदृढम् । त्रियोविंशतिकं त्वेवं नित्यं कल्याणकारकम् ॥ १०॥ चतुरश्रीकृते क्षेत्रे भाग एको विभाज्यते । चतु:स्तम्भसमायुक्तमेकद्वारण भूषितम् ॥ ११ ॥ क्षेत्रभागोदयः स्तम्भे रहोभूफलकान्तरे । आदिभूम्युदयोचे वै पीठबन्धं प्रकल्पयेत् ॥ १२ ॥ उदये नवभिर्भक्त भागेनैकेन कुम्भिका । चतुरधापाश्रवृत्तः स्तम्भ ऊर्ध्वं चतुष्कतः ॥ १३॥ तदुर्चे तु विधातव्यं भागोनं व्यालक तथा। हीरग्रहणकं कार्य भाग पादविवर्जितम् ॥ १४ ॥ सपादभागिक पट्टस्तन्त्रकेन समन्वितम् ।। भागार्धेन जयन्ती च भूमिभूमिश्वयं क्रमः ॥ १५॥