________________
अपराजितपृच्छा
तद्वभागप्रमाणेन कुर्यात् सिंहावलोकनम् । प्रत्योल्यन्तं चत्वरे तु चतुराणि कारयेत् ॥ ३२ ॥ द्वाराण्यष्टौ खडकीनां शस्तानि शुभदानि च । खडक्की सर्वद्वारेषु कुर्यात्सोपानसंचयम् ॥ ३३ ॥ रथमार्गोंचितं शस्तं प्रतोलीषु प्रवेशनम् । द्वारेषु च कपाटानि दृढार्गलयुतानि च ॥ ३४ ॥ पूर्वद्वारे ध्वजस्थाने कीर्तिस्तम्भं महोदयम् । तभद्रे तु प्रतिष्ठाप्य; कीर्तिपताक हस्तकः ॥ ३५॥ शिलोंछखननं त्राणं शय्यासनपट्टिका । नित्यकर्मस्थानस्थानं संध्यावन्दनकण्डिका ॥ ३६ ।। गृहोपस्करं सर्वमायसकाष्ठकादिकम् । द्विजदेवाय दातव्यमात्मार्थ स्वर्गमानदम् ॥ ३७ ॥ भूभ्यादिकं गजाश्वं च देशग्रामं च पत्तनम् । पयस्वती रथं छत्रं हेमरत्नादिभूषणम् ॥ ३८ ॥ सपत्नीकाय पूज्याय विप्रा देवैश्च पूजिताः। इन्द्रराज्यसमं राज्यं स्वर्गे वाऽथ धरातले ॥ ३९ ॥ धान्यसंचायकं ख्यातं नगरं नाम भूधरम् । देवलोकेषु विख्यातं पूज्यं सुरनरोरगैः ॥ ४० ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां ब्रह्मनगरभूधराख्यगृहपञ्चाशत् सङख्याधिकारोनामषडशीतितमं सूत्रम् ॥