________________
२१७
महाराजाधिगृहशुद्धशेखरसंघाटमिथकच्छन्दनिर्णयब्रह्मनगरभूधराख्य-
गृहो नाम षडशीतितमं सूत्रम् ॥ पञ्चसंघाटसंयुक्तं षोडशाण्डकभूषितम् । तादृशं तादृशैर्युक्तं प्रस्तार: पूर्वतः स्मृतः ॥ ३१॥ सुन्दराख्यं महादिव्यं राज्ञां विजयकारणम् । तत्कार एकछत्रं भोक्तारो भुवनत्रये ॥ ३२॥ मिश्रकं पूजयेच्चैव वास्तुं सूत्र सुरार्चितम् । अन्यथा वेधयेद् वत्स मिश्रकं वेधवर्जितम् ॥ ३३ ॥ चतुःषष्टिप्रभिन्नं च शतपाच्चापराजित । पूजयेद् वास्तुनी तत्र पूज्याः सर्वे पृथक् सुराः ।। ३४ ॥ त्रिदशाः पूजिता येन त्रैलोक्यं सचराचरम् ।
एवं विचार्य कर्तव्यं न न्यून चाधिकं न हि ॥३५॥ इति महाराजाधिगृहशुद्धशेखरसंघाटमिश्रकच्छन्दनिर्णयाधिकारः॥
संघाटकसमायुक्तं त्यक्त्वा पुष्पककोष्ठकम् । पूर्वापरवासराणामष्टपदौ च जायते ॥ - - - - - - - - याम्यकौबेरसंस्थितौ ॥ २१-२२॥ सर्वेषामीदृशश्छन्दश्चतुःषष्टिपदेषु च । ब्रह्मस्थानगृहाश्चैव पादानां च चतुष्टये ॥२३॥ गृहाणां मानसङ्ख्या च द्वात्रिंशद्धस्तकैर्मता। उभयोर्ब्रह्मवंशस्य चतुर्थाशकराः स्मृताः॥ २४ ॥ चत्वारो द्वादशमार्गाश्चत्वारो षोडशान्विताः। नवमार्गकृताः सङ्ख्या निर्मिता विश्वकर्मणा ॥ २५॥ सीमा करसहस्रं तु आयामो विस्तर: समौ । चतुःषष्टिपदं कुर्याद् ब्रह्मरन्ध्रप्रमाणतः ॥ २६ ॥ चतुर्मुखं चतुर्दारं चतुर्थक्ष ? पितामहम् । कारयेच्च स्वनगरे प्रासाद कमलोद्भवम् ॥ २७ ॥ स्थापयेच्च चतुर्वर्ण चतुर्दिक्षु यथाक्रमम् । महास्थानानि चत्वारि चतुर्वर्णाश्रितानि च ॥ २८ ॥ सीमान्तेषु च सर्वेषु चतुःषष्ट्यादिसाधिते । प्राकारः सुदृढः कार्यों नवहस्तैः समुच्छूितः ॥ २९ ॥ नवहस्ता वत्ता कार्या त्रिगृढा कण्डवारुणी। तत्तुल्योदयमानं च कपिशीर्षधनाकुलम् ॥ ३० ॥ कणे कणे तु कर्तव्या वृत्ताः कुड्मलशोभनाः ।
विहस्तान्ते पुनः कुर्याद्योधविद्याधरी तथा ॥ ३१ ॥ २८ अ.