________________
रद
अपराजितपृच्छा गर्भच्छन्दमिति प्रोक्तं संघार्ट कथयाम्यहम् । अलिन्दद्वयसंयुक्त संघादं तु विचिन्तयेत् ॥ १५ ॥ भित्तिभागं तु मध्यान्ते सीमांश्चैव द्विभागतः । भद्रान्ते निर्गमं तत्र छन्दे याम्योत्तरे न्यसेत् ॥ १६ ॥ तेनैव पश्चिमे दद्यादष्टांशं पुरतस्तथा। मुखशाला प्रकर्तव्या तलच्छन्दात्परा भवेत् ॥ १७ ॥ ततो गृहीत्वा क्षेत्रांशमङ्कयेद् भूमिकोच्छ्यम् । मूलभूम्युच्छ्यान्ते च चतुर्भागैस्तु कारयेत् ॥ १८ ॥ शेषास्तु पादहीनाश्च भुमयो नवसङ्ख्यया । तलच्छाद्य तथा वेदी ग्रीवा घण्टा च छत्रकम् ॥ १९ ॥ कलशं तु शिखान्तं च त्रिभागैश्चैव लांछयेत् । ऊर्ध्वमानमिति प्रोक्तं रेखाश्चैव तु पूर्ववत् ॥ २० ॥ संघाट त्रयसंयुक्तं तच्च निरिसंयुतम् ? । त्रिपुष्पकं प्रकर्तव्यं संघाट गर्भमध्यतः ॥२१॥ चतुःसंघाटकोपेतं षटपुष्पकविभूषितम् । एवं तु कारयेद्वत्स दशमान्तं तु सुव्रत ॥२२॥ तथा चन्द्रकलामेकामजाक्षोभ ? शालभञ्जिका। छाद्यकपोतकलां तु निर्गता माडमालिका ॥ २३ ॥ संघाट वीरभद्रं तु भित्तसंज्ञमुदाहृतम् । सप्तभौमं तु सद्गव्यं शुद्धच्छन्द नवान्तिकम् ॥ २४ ॥ एवं तु नवसंयुक्ता भूभ्य: कार्यास्तु सुव्रत । राज्ञां विनिर्मिताश्चैता विचित्रास्त्वपराजित ॥ २५॥ त्रिसंघाट महादिव्यं नाम्ना वै सुन्दरं गृहम् । पञ्चसीम त्रिसंघाट कथितं चैव सुन्दरम् ॥ २६ ॥ पुनरन्यं प्रवक्ष्यामि भेदोपभेदनिर्णयम् । नवसीमासमायुक्तं पञ्चसंघाटकं विदुः॥ २७ ॥ नवपुष्पकसंकीर्ण सप्तघण्टाविभूषितम् । षोडशांशं शुद्धद्वयं संघाटषोडशं तथा ॥ २८ ॥ द्वादशांतं द्विसंघाट वामदक्षिणसंस्थितम् । पश्चिमे चेदृशं छन्दं पुरतश्चैव तादृशम् ॥ २९॥ द्विर्द्धिश्छन्देन दातव्यं भित्यष्टकसमन्वितम् । छन्दलक्षणसंयुक्तं पूर्वमर्मविवर्जितम् ॥ ३१ ॥