________________
(८६) महाराजाधिगृहशुद्धशेखरसंघाटमिश्रकच्छन्दनिर्णय
ब्रह्मनगरभूधराख्यगृहो नाम षडशीतितमं सूत्रम् ॥
विश्वकर्मोवाच
अथातः सम्प्रवक्ष्यामि लक्षणं राजवेश्मनाम् । विभक्तिभागसङ्ख्यानां छन्दालङ्कारसम्युतम् ॥ १॥ क्षेत्रं विभज्य यत्नेन भागाः स्युः षोडशैव च । मध्ये शाला द्विभागा स्यादलिन्दः शेषमागतः ॥२॥ क्षेत्रादौ विन्यसेदू गर्भ दक्षिणे करमात्रकम् । त्रिभागं वामतः कुर्यात् त्रिभागं चैव मध्यतः ॥३॥ षड्भागं विस्तृतं द्वारमायतं द्विगुणं तथा । द्विभागं ब्रह्मसंस्थान सीमा तत्र प्रकारयेत् ॥४॥ शेषोऽलिन्दविधिर्युक्त्या तन्मान पुरत: शुभम् । तलच्छन्दमितिप्रोक्तमूर्ध्वमानमतः शृणु ॥५॥ सार्धत्रिभागसंयुक्ता चादिभूमिः समुच्छ्रिता । शेषा नवान्ताः सवृत्ताः पादहीना यथाक्रमम् ॥ ६॥ वेदीकण्ठं तथा पनं कलशं चाग्रशोभितम् । चतुर्विशतितिलकैर्भागं कुर्यात्समुच्छ्रये ॥ ७॥ प्रवेशं स्तम्भवेश्चारु ? हृदेशां लकमोद्गतः ? । प्रमाणमीदृशं चैव उपशोभा तथा पुनः ॥ ८॥ . नानारूपसमाकीर्ण छाद्यघण्टाविभूषितम् । नानापुष्पकशोभाढ्यं चन्द्रशालासमन्वितम् ॥९॥ नियुहं निर्गमं श्रेयः ? सहश्चैवरनेकधा ? । शुद्धच्छन्दमिति प्रोक्तं सुशर्म चैव सुव्रत ॥१०॥ संघाट कथयिष्यायि क्षेत्रभक्त्या द्विरएकम् । तेन क्षेत्रप्रमाणेन नवमं दक्षिणे भवेत् ॥ ११ ॥ ततश्च वामतो दद्यात् पूर्वतः पश्चिमं ततः। नवान्ते पञ्चमं भार्ग वामतो दक्षिणं तथा ॥ १२॥ मध्यतो ब्रह्मसंस्थाने सीमासूत्रं तु विन्यसेत् । सीमान्ते द्वावलिन्दौ च भित्तिर्भागा तदन्ततः ॥१३॥ द्वावलिन्दौ च तत्पश्चाद् भित्तिभागः समः पुनः ।। मित्यन्तेऽलिन्द एकस्यात्तदन्तेष्वन्तभित्तिभिः ॥ १४ ॥