________________
२१४
गृहग्रामनगरशोभा नाम पश्चाशीतितमं सुत्रम् ॥ पनसैर्नारिकेलैश्च वृक्षैः पूगीफलैस्तथा । द्राक्षानागरवल्लीनां विविधैश्च लतागृहैः ॥ ३२ ॥ वापी वैवाथ कूपश्च दृढयन्त्रैरलङ्कृतः । तस्य बाह्ये तु प्राकारं कपिशीर्षविवर्जितम् ॥ ३३ ॥ परिखायास्तत्र बाह्ये सप्तहस्तप्रमाणतः। इन्दिरावासनं कुर्याद् देवदेवजगत्प्रभुः ॥ ३४॥ कृते याति पुरे रम्ये यत्र साक्षान्महेश्वरः। कैलाससदृशं रम्यं राज्यं यावत्तु मेदिनी ॥ ३५ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
गृहप्रामनगरशोभाधिकारो नाम पञ्चाशीतितमं सूत्रम् ।।