________________
अपराजितपृच्छा संस्थानं पत्रसमिधामायुधानां तु नैर्ऋते । वापीकूपतडागं च वारुणे चोदकाश्रयम् ॥ १६ ॥ कोष्ठागारं तु वायव्ये भाण्डागारं तथोत्तरे।। पुष्पागारं तथेशाने कर्तव्यं पट्टसंयुतम् ॥ १७ ॥ कुर्यान्मठस्योपरि च विद्याव्याख्यानमण्डपम् । वलभीकारमध्ये तु सगवाक्षं सदोगृहम् ॥ १८॥ गृहान्तराणि सर्वाणि सजलैः कदलैः शुभैः । पञ्चवर्णेश्च कुसुमैः शोभितानि प्रकल्पयेत् ॥ १९ ॥ प्राकारस्यान्तबाह्यांशं कपिशीर्षसमन्वितम् । हस्तान्तरे तस्य बाह्ये कर्तव्यं परिखादि च ॥ २० ॥ प्रतोली चाग्रतः कार्या कपाटपुटसंयुता। प्रतोल्यूचे भूमिकोर्चे पाद्यं समयसूचकम् ॥ २१॥ याम्योत्तरानुगाश्चैव प्राकाराः समसूत्रतः । निर्गमः सूत्रमानेन प्रतोल्यग्रसमन्वितः ॥ २२॥ युग्मं गृहाणां कर्तव्यं पक्षयोश्चैव सन्मुखम् । प्रासादस्य प्रमाणेन पादूनं वा तदुच्यते ॥ २३ ॥ एकभौमा द्विभौमा वा शाला निर्गमभूषिताः । मत्तवारुणसंयुक्ता निर्मिताश्चित्रशालिकाः ॥ २४॥ जगत्यने वामतश्च भिट्ट स्याद् भूमिकोच्छ्तिम् । महोत्सवे च वासन्ते तत्र हिन्दोलकं भवेत् ॥ २५ ॥ घटीस्थानोत्तरे कार्या विचित्रा नृत्यशालिकाः। वितानै: शालभजीभिर्घण्टाछाद्यैर्विभूषिताः ॥ २६ ॥ तासामुत्तरतः कार्या दक्षिणे वामतोऽपि वा। अथवा वारुणे कुर्यात् क्षेत्रालाभे सुवाटिकाः ॥ २७ ॥ तासु वै विविधा वृक्षा जातिपुष्पाण्यनेकधा । सर्वे च देवतरवो नोपरिष्ठाः समन्ततः ॥ २८ ॥ प्रियङ्गशिरीषाशोका जीवे कारटकैः शुभैः ।। पुन्नागनागबकुलै पाउलैर्बिल्वचम्पकैः ॥ २९ ॥ श्वेतमन्दारविजयाजातीतगरकुञ्जकैः।। अनङ्गैः सुवर्णपुष्पैश्च बाणा भ्रान्ताः काका(र)टकैः १ ॥ ३० ॥ मुद्गरैः शतपत्रैश्च रम्भाकाञ्चनपुष्पकैः। नारंगैः कर्णजम्बीरस्तालतमालकेतकैः ॥३१॥