________________
२०९
अपराजितपृच्छा प्राकारादियुक्तभागैर्विस्तरो भागषटकतः । निर्गमश्च चतुर्भागैः प्राकारो यत्र वामिछतः ॥ १६ ॥ याम्यपाखें समस्तत्र विस्तरस्तु त्रिभागिकः।। निर्गमश्च त्रिभागेश्च संक्षेपास्कथितं मया ॥ १७ ॥ त्रिभागं दक्षिणे त्यक्ता द्विभागं च तथोत्तरे । शेषा प्रतोली चैकांशा भागं दक्षिणभित्तिका ॥ १८॥ भवेत् भागोत्तरा भित्तिः कर्णान्ते वलणं त्रिभिः ।। दक्षिणे भित्तिपाइँऽग्रे कर्णान्ते वलणं त्रिभिः ॥ १९ ॥ द्विभार्ग विस्तरं कुर्याद् वक्त्रमार्गप्रवेशनम् । एकपोल्यमिति ख्यातं संक्षेपाकथितं मया ॥२०॥ वामे द्विभागविस्तीर्णे अपरे दशभागिके । दक्षिणे समभागश्च चतुर्भार्ग परे हितम् ॥२१॥ त्रिभागे विस्तरं याम्ये अपरेऽस्य तमपदम् ? । याम्ये कुर्याश्च वेदांशं मूलद्वारं तु कारयेत् ॥ २२॥ चतुर्भागानरमणं भागा भित्तिर्याम्योत्तरे । भागा भित्तिस्तदने च समद्वारं सतोरणम् ॥ २३ ॥ पुनर्भमश्चतुर्भागः षड्भागश्चैव विस्तरे। विधेयं पूर्ववच्छेषं त्रिपोल्यं नाम शोभनम् ॥२४॥ यथा वामे तथा दक्षे भित्तिर्भागा भुजान्ततः। मध्यभित्तियथा पूर्व चतुष्काकृति तोरणे ? ॥२५॥ द्वारं द्वारस्य सूत्रेण भागिको भित्तिविस्तरः। पुनरन्ते चान्तरे च द्वारं द्वारतृतीयकम् ॥ २६ ॥ तद्वत्तल्यानि क्षेत्राणि कार्याणि शोभनानि वै। पूर्वद्वारानुक्रमेण उभे द्वारे याम्योत्तरे ॥ २७ ॥ वक्त्रद्वारं पुनस्त्वेवं कर्तव्यं दक्षिणोत्तरे । पञ्चपोल्यमिदं ख्यातं प्राकार: कपिशीर्षतः ॥२८॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
पञ्चप्रतोल्यधिकारो नाम त्र्यशीतितमं सूत्रम् ॥
-
-