________________
(८३) पञ्चप्रतोली नाम त्र्यशीतितमं सूत्रम् ॥
विश्वकर्मोवाच
प्रतोलीश्व प्रवक्ष्यामि कनिष्ठमध्यमोत्तमाः । उच्छ्रयस्त्रिविधो वत्स द्वारा प्राकारतोऽपि च ॥ १ ॥ प्रतोल्या द्वारउत्सेधः पञ्चदशकरैः शुभः । मध्यस्त्रयोदशकरै रुद्रहस्तैः कनिष्ठकः ॥ २ ॥
कनिष्ठमेकभूमं च द्विभूमं चैव मध्यमम् । उत्तमं च त्रिभूमं स्यात् त्रिधोदितक्रमागतम् ॥ ३ ॥ उत्तमं चाऽष्टहस्तैश्च सप्तहस्तैश्च मध्यमम् । कनिष्ठं चैव षड्ढस्तैर्विस्तारस्त्रिविधो मतः ॥ ४ ॥ नवहस्तोच्छ्रिता: स्तम्भाः कुम्भकैः सुसमन्विताः । ऊर्ध्वमेकद्वित्रिक्षणा मालिकाच ह्यनुक्रमात् ॥ ५ ॥ मदलाः शीर्षस्तम्भिका निर्यूहे मदलाः पुनः । स्वस्तिकाद्वयं शीर्षोध्व निर्यूहे मदलाः पुनः ॥ ६ ॥ शीष च भवेत्पट्टः शाखाद्यं चोत्तराङ्गकम् । तुला जयन्ती पीता सा ? निर्मलं कपिशीर्षकम् ॥ ७ ॥ तदूर्ध्वे च पुनर्भूमिचतुर्द्वारं तृतीयके । दृढार्गलाः कपाटाश्चाऽपवरकास्ततः परम् ॥ ८ ॥ वक्त्रद्वाराणि वक्ष्यामि प्रतोलीनां चतुष्टयम् । अनुक्रमेण कर्तव्यं कथयामि समासतः ॥ ९॥ उत्संग: पूर्णबाहुश्च हीनबाहुस्तथापरः । प्रतिकाय इति प्रोक्तं प्रतोलीनां चतुष्टयम् ॥ १० ॥ उत्तरामुख उत्सङ्गः पूर्णबाहुश्च पूर्वतः । अपरे हीनबाहुश्च प्रतिकायस्तु दक्षिणे ॥ ११ ॥ सृष्टिप्रवेश उत्संग प्रतिकायोऽपसव्यतः । पूर्ण बाहुः पूर्ववक्त्रो वामास्यो हीनबाहुकः ॥ १२ ॥ वामभागे दिशि दिशि वामावर्तोद्भवास्तु ये । द्वारं च दक्षिणावर्त कथितं त्वपराजित ॥ १३ ॥ एकपोल्यं त्रिपोल्यं वा पञ्चपोल्यमथोच्यते । एवंविधः प्रकर्तव्यः पोल्यानां तु समुच्चयः ॥ १४ ॥ एकपोल्यं वक्त्रद्वारं त्रिपोल्यं भ्रमणीद्वयम् । पञ्चपोल्यं तु चित्राढ्यं कर्तव्यं सर्वकामदम् ॥ १५ ॥