________________
(८४) गृहग्रामनगर शोभा नाम चतुरशीतितमं सूत्रम् ॥
विश्वकर्मोवाच ---
प्रतोलीपरतः सर्वे कार्या माडास्तथोत्तमाः । देवताग्रेषु सर्वत्र बलाणकोपरि तथा ॥ १ ॥ यता भवनादग्रे माड उच्चैः प्रशोभते । कर्णेषु च समस्तेषु माडान् कुर्यात्सभूमिकान् ॥ २॥ राजद्वारे पञ्चभौमास्तुङ्गा माडाश्च शोभनाः । तुः कर्णेषु श्रीहट्टाचत्वरे हट्टतः परम् ॥ ३ ॥ श्रीधर श्रीगृहाख्यो माडस्तुङ्गस्सुशोभनः । दानाधिकरणं यत्र मण्डपाभिधमुच्यते ॥ ४ ॥ कर्तव्यो माड उत्तुङ्गत्रिभूमिश्च तथोत्तमः । घण्टा कलशशोभाढ्या कर्तव्या शुभलक्षणा ॥ ५ ॥ श्रीट्टेषु समस्तेषु द्वितीय भूमिको परि । कार्या काष्ठचतुष्की तु मालाख्या छाद्यभूषिता ॥ ६ ॥
पट्टादिकं तु राज्ञीनां राजगेहस्य मध्यतः । पञ्चभौमं पटराश्याः शेषाणां तु त्रिभूमिकम् ॥ ७ ॥ माडाकृतिस्तु कर्तव्या पक्त्यनुक्रमशोभिता । ग्रहाणां पिण्डवास्यादि यद् भवेद् वामदक्षिणम् ॥ ८ ॥
कुर्यादुपयक भूमेस्था काष्ठचतुष्किकाः । सर्वकामप्रदाः कार्याः कलशाश्छाद्यकोपरि ॥ ९ ॥
गजशालाः समाश्छाद्यघण्टाकलश सम्युताः । उन्नताः पञ्चकलशैः पट्टहस्ताधिकोद्भवाः १ ॥ १० ॥ सर्व श्रीकरणाद्यं च राजाधिकरणं तथा । याधिकरणं चैव धर्माधिकरणं तथा ॥ ११ ॥ द्विभूमिकाः समस्ताश्च ऊर्ध्वे छाद्यचतुष्किका । घण्टा कलशशोभाढ्याः कर्तव्या लक्षणान्विताः ॥ १२ ॥
मालमौलिशुद्धशृङ्गं चतुःप्राकारसम्भवम् । सप्तभौमं नवभौमं कर्तव्यं राजमन्दिरम् ॥ १३ ॥
श्रीराजपुरमध्ये तु श्रीमाडा उत्तमाच्छ्रिताः । कलशैर्दिव्यशोभाढ्याः कर्तव्याः सर्वकामदाः ॥ १४ ॥ कुर्याद्धर्म्यादिगेहानां पट्टच्छन्दं जनाकुले | एकभौमा द्विभौमाश्च वरण्ड्य मालबन्धने ॥ १५ ॥