________________
राजालय सिंहासन छत्रप्रमाणमेकाशीतितमं सूत्रम् ॥
अन्येषां स्वल्प राज्यानां दातव्यं तु मसूरकम् गदिका पट्टगद्दी च सर्वस्मिञ्जन संकुले ॥ ३१ ॥ आसनं सिंहसंज्ञं तु शयनं सुखमुत्तमम् । यानं सुखासनं चैव यानं तु रथ उच्यते ॥ ३२ ॥ यानं महागजपृष्ठं यानं विद्याद्विसारयोः । गजपृष्ठे च यद्वद्धं विद्धि तत्सिंहसंशक्रम् ॥ ३३ ॥ व्याघ्ररूपं विद्धि शिखि - कलापकभवं पुनः । एवं विविधरूपाणि पताका छत्रमण्डलम् ॥ ३४ ॥ चतुरशीत्यङ्गुलं च व्यासे छत्रं च वृत्तकम् । द्विसप्तत्यङ्गुलं मध्यं षष्ट्रयङ्गुलं कनिष्टकम् ॥ ३५ ॥ शतार्थं प्रासादादाने ? शेषाः प्रावृट्सु छत्रिका | छत्राभिक्तरलीः युक्ता ? षोडशाङ्गुल लम्बिता ॥ ३६ ॥
हेमदण्डो कलशं छत्रयुग्मं च भूपतेः ! महामण्डलेश्वरे तु शिखिकलापशर्करी ॥ ३७ ॥ चामरालङ्कारयुक्तं महाराजेश्वरं विदुः । इत्येवमुक्कामाला च राज्ञाऽलङ्कारशोभना ॥ ३८ ॥
लक्ष्मीश्च रमते नित्यं तथा सा चक्रपाणिना । तपसार्धयता येन प्रताप कीर्तिवर्द्धनम् ॥ ३९ ॥
इति सूत्रसन्तान गुणकीर्तिप्रकाशप्रोक्तृश्री भुवनदेवाचार्योक्ता पराजित पृच्छायां राजालय सिंहासनछत्रप्रमाणाधिकारोना मैकाशीतितमं सूत्रम् ॥
२०५