________________
२०४
अपराजितपृच्छा पुरोहिते तत्समं च तदर्ध जनसंकुले। अनुक्रमादिदं सर्व ज्येष्ठमध्यकनिष्ठकम् ॥ १५ ॥ अष्टहस्ते त्वेकभमं द्विभूममष्टादशके । त्रिभूममष्टाविंशत्याऽष्टत्रिंशद्भिर्चेदभूमम् ॥ १६ ॥ अष्टचत्वारिंशद्भिः पञ्चभु षड्भ्वष्टपञ्चाशद्भिः । अष्टषष्ट्या सप्तभूममष्टभ्वष्टसप्ततिभिः ॥ १७ ॥ अष्टाशीत्या नवभूमं दशभ्वष्टनवतिभिः । भद्रमेकादश भूममष्टोत्तरशतात्मके ॥ १८ ॥ सिंहद्वारानुक्रमं च कथये स्वपराजित । द्वारत्रयन्तृत्तमे च कर्त्तव्यं चक्रवर्तिभिः ।। १९ ।। उत्तमं पश्चदश च मध्यमं च त्रयोदश । कनिष्ठं रुद्रहस्तान्तमुच्छ्रयेण तु योजितम् ॥ २० ॥ इदं सिंहद्वारमानं त्रिधा स्याञ्चक्रवर्तिनि । महाराष्ट्रेश्वरे राशि महामण्डलकेश्वरे ॥ २१ ॥ चक्रवर्तिनि मध्याये कनिष्ठं मण्डलेश्वरे । अनन्तरं च कथये सिंहद्वारे यथाक्रमः ॥ २२ ॥ द्वारयुग्मं तु कर्त्तव्यं महासामन्तके सदा । द्वारमेकं तु कर्त्तन्यं तथा सामन्तकादिके ॥ २३ ॥ अन्येषां स्वल्पराज्यानां ये स्मृताश्चान्यसंशकाः। तेषां च तोरणं दद्यात् सिंहद्वारविवर्जितम् ॥ २४ ।। स्तम्भयुग्मोत्तरङ्गाद्यं सिंहकर्णैर्विभूषितम्। नपुंसकं विना कर्णैः स्वल्पराजेषु भाषितम् ॥ २५ ॥ स्तम्भयुग्मोर्चतः कुर्यात्पत्रमालात्रयं तथा। विप्रेषु क्षत्रियोक्ताश्च मालायुग्मं च वैश्यके ।। २६ ॥ एकमाला तु शूद्राणां स्तम्भोज़ वंशकोच्छ्रिता । वंशोच्छ्तिा विना स्तम्भैः प्रकृतीनां च सर्वशः ।। २७ ।। तोरणं कथितं वत्स आसनं शृणु साम्प्रतम् । आसनं कथयिष्यामि दिव्यमानेन सुव्रत ॥२८॥ युक्तं च षष्टिपञ्चाशश्चत्वारिंशद्भिरङ्गुलैः । महाराजेचितं वै इत्थं सिंहासनं त्रिधा ॥ २९ ॥ भद्रासनं महाराष्ट्र विलासे प्रमसंबकम् । विस्तारिका तु सामन्ते चातुरी मन्त्रिमण्डले ॥ ३०॥