________________
(८१) राजालयसिंहासनछत्रप्रमाणमेकाशीतितमं सूत्रम् ॥
विश्वकर्मोवाच
राजालयं च कथये प्रतापकीर्तिवर्द्धनम् । लक्षणं चोच्छ्यं भूमेहस्तसङ्ख्याप्रमाणकम् ॥१॥ एकच्छत्रप्रभोक्ता य: स भवेच्च महीपतिः । अष्टोत्तरशतहस्तैः कार्य भवनमुत्तमम् ॥ २॥ पृथिव्याश्च यदा राजा भुङ्क्तेऽध परमेव च । तस्य वेश्म प्रकर्त्तव्यं शतं हीनकरद्वयम् ॥ ३॥ तथा महीत्रिभागं च भुले यो वै नराधिपः । अष्टाशीतिकरं वेश्म महीशानां त्रिधा मतम् ॥ ४॥ लक्षग्रामाधिपो यस्तु स महामण्डलेश्वरः। तस्य वेश्म प्रकर्त्तव्यं द्विहीनाशीतिहस्तकम् ॥५॥ लक्षार्दू यस्तु भुते स मण्डलीकोऽभिधानतः । अष्टषष्टिकरं तस्य कर्तव्यं भवनोत्तमम् ॥ ६ ॥ अयुतद्वयग्रामेशो महासामन्तसंक्षकः । तस्य वेश्माऽटपञ्चाशत्-करं कामफलप्रदम् ॥ ७ ॥ सामन्तसंशक: सोऽत्राऽयुतग्रामाधिपश्च यः । अष्टचत्त्वारिंशद्धस्तं भवनं सर्वशोभनम् ॥ ८॥ ईशोऽयुतार्धग्रामाणां लघुसामन्तसंशकः। अष्टत्रिंशत्करैर्युक्तं भवनं तस्य कामदम् ॥९॥ सहस्रमेकं ग्रामाणां भुलेस चतुरंशिकः । वेश्माऽष्टाविंशतिकरं कुर्याच्छान्तिकरं सदा ॥ १०॥ प्रामाणां विंशति भुते यः पञ्चदशकं तथा । ग्रामांस्त्रीन्द्वौ तथा चैकं भुले पर्यायसंस्थितः ॥ ११ ॥ शतमेकं तु ग्रामाणां स्वल्पराष्ट्रं तु संज्ञितम् । अष्टादशकरं वेश्म कर्तव्यं सर्वकामदम् ।। १२॥ अष्टादशकरमध्ये ता: कर्तव्याः क्रमेण तु?। सोपानपतिमर्यादा कथिता त्वपराजित ॥ १३ ॥ राजालये च यन्मानं तदर्ध दण्डनायके । तदर्ध मन्त्रिसंस्थानं मन्यर्धे द्वारपालके ॥ १४॥