________________
२०२
अपराजितपृच्छा षष्ट्यङ्गुलः सुन्दरः स्याच्छ्रीवत्सश्चतुःषष्टिभिः । अष्टषष्टिभिराहादो द्वासप्तत्या मनोहरः॥ १५ ॥ षट्लप्तत्या च विजयो विभवोऽशातिभिस्तथा । चतुरशीतिभिः शान्तः प्रमाणं सप्तधा विदुः ॥ १६ ॥ ककुझान् कुम्भिकावांश्च कराली कृष्णतालुकः। हीनदन्तोऽधिकदन्तः षडश्वाः स्वामिघातकाः ।। १७ ।। अश्वशालां प्रवक्ष्यामि चतुःषष्टिकरायता। शतार्द्धहस्ता मध्या स्यात् चत्वारिंशत्करेतरा ॥१८॥ पञ्चदशकरा ज्येष्ठा त्रयोदशकरेतरा । कनिष्ठैकादशकरा पृथुत्वं त्रिविधं मतम् ॥ १९ ॥ सप्तपञ्चत्रिहस्तं च विस्तरे त्रिविधं स्मृतम् । द्विहस्तमुच्छ्रितं कुर्यात् कूगर्थे लक्षणान्वितम् ॥ २०॥ तस्य बाह्ये भवेद् भित्तिरेकहस्ता च वेष्टने । पञ्चहस्तोच्छ्रिता भित्तिरर्थपञ्चस्वरोऽथवा ? ॥ २१॥ सप्तहस्तोच्छ्रितं कार्यमुदाब्या ? पक्षस्तम्भकम् । तोरणं सप्तहस्तान्ते उत्तरस्तम्भको भवेत् ॥ २२॥ दण्डच्छाद्यत्रयोच्छूिता यावत्ताराढ्यस्तम्भकम् । तत्रान्तरपत्रोच्छ्रिता अल्यो द्वादशाऽन्यतः ॥२३॥ तदूर्ध्वं तु पुनः कुर्याद्दण्डच्छाद्ययं तथा । कलशास्तत्र दातव्याः प्रतिक्षणमथोपरि ॥ २४ ॥ पूर्वापरमुखास्त्रस्तास्तेजोऽर्थप्रतापक्षयः । तेजोवृद्धिः क्षीयते च यथा कृष्णे निशाकरः ॥२५॥ दक्षोत्तरमुखाः शस्ताः प्रतापकीर्तिवर्द्धनाः । नित्यं कल्याणकारिण्यः सर्वकामफलप्रदाः ॥२६॥
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छाया
मश्वलक्षणशालाधिकारो नामाशीतितमं सूत्रम् ॥