________________
(८०) अश्वलक्षणशाला नामाशीतितमं सूत्रम् ॥
विश्वकर्मोवाच
२६ अ.
1
गजाश्च कथिता वत्स अश्वाख्यानमतः शृणु आदितेजोमया अश्वाः पारावारसमुद्भवाः ॥ १ ॥ तुरकाद्भवा विख्याताः प्रान्ता दक्षराष्ट्रोद्भवाः । महावनान्तरुद्वेगा ? वेण्या वेगवती तटे ॥ २ ॥ चञ्चलाच देशे च डाहाले प्रतिचारकाः । एते चाष्टविधा अश्वाश्चातुर्वर्ण्य च कथ्यते ॥ ३ ॥
विप्रक्षत्रियविट्शूद्रा अश्वाश्चत्वार उत्तमाः । बहूद के प्रविष्टश्च पिबेत्तोयं शिरोद ये ॥ ४॥ स्थिरक्रमाद् गच्छति चाऽऽसने शुद्धमनाः स्थिरः । स्वामिनो रोहणे चेतः पश्यंहृदयचक्षुषा ॥ ५ ॥ शब्दैश्च गर्जनाकारैः सङ्ग्रामे स्वामितारणः । पभिर्गुणेः समायुक्तः सोऽश्वो वै विप्रजातिकः ॥ ६ ॥ प्रविष्ट उदकेऽन्यशब्दे विद्रुतो भवेत् । स्वामिनं रोहयेच्छुद्धश्चान्यं तु परिपातयेत् ॥ ७ ॥ सङ्ग्रामे दुर्धरश्चाश्वो जैत्रहारी प्रबुध्यति । कामातुरश्च शुरश्च जात्या क्षत्रियसंज्ञकः ॥ ८ ॥ पिबेच्च स्वेच्छया कामं तोयं जानुसमोद के । स्थिरासनः स्थिरो केश्च स्थिरकायो युधिस्थिरः ॥ ९ ॥ एते अश्वा वैश्यसंज्ञास्युः शूद्रसंज्ञानतः शृणु । उदके चाप्रविस्तु बाह्यस्थो हि पिवेज्जलम् ॥ १० ॥ वैश्ये तु मधुरः शब्दः शुद्रे वै कर्कशः स्वरः । क्षणं शुद्धासने स्वस्थः सङ्ग्रामे प्राञ्जालः क्षणम् ॥ ११ ॥ क्षणं तथातुरः स्त्रीणां क्षणं स्वस्थानमानसः । एते चाश्वाः शूद्रसंशाश्चतुर्थज्ञातिका मताः ॥ १२ ॥ इत्युक्तमा मता अश्वाः शेषाः प्रकृतिजातकाः । इति ज्ञातिप्रभेदाः स्युः प्रमाणं सप्तघोत्तमम् ॥ १३ ॥
सुन्दरश्वाऽथ श्रीवत्स आह्लाद मनोहरः ।
विजयो विभवः शान्तः सप्ताऽश्वा उत्तमात्तमाःः ॥ १४ ॥