________________
२००
अपराजितपृच्छा विन्ध्याख्यास्तु पर्यन्तं कलिङ्गरत्नपुरोदः १ । माणिकदण्डाभिधानं वनानामुत्तमोत्तमम् ॥ ४६॥ चौडबङ्गे कोशले च पौरे सौराष्ट्रके तथा । बदरीकोपकण्ठे च विदुधोरवनानि च ॥४७॥ प्राचीलोहितयोर्मभ्यं सामान्यं पौरकौशले । कच्छे कृष्णे उत्तम च दाशेरे मणिकेऽधिकम् ॥४८॥ सामान्ये चैव सड़कीर्णो मन्द्रश्चैवं तु मध्यमे । उत्तमे मृगरूपश्च भद्राख्यश्चोत्तमोत्तमे ॥ ४९ ॥ स्वके स्वक वने चव पकंक च चतुर्विधम् । प्रमाणानि ततो वक्ष्ये हस्तसझ्यादितः क्रमात् ॥ ५० ॥ सामान्यस्त्वेव षड्ढस्तो मध्यमः सप्तहस्तकः। उत्तमश्चाष्टहस्तो नवहस्त उत्तमोत्तमः ॥५१॥ मन्द्रो मृगश्च भद्रश्च सङ्कीर्णश्च चतुर्विधाः । प्रमाणानि च ख्यातानि कथितान्यपराजित ॥ ५२ ।। हस्तिधामत्रयं कुर्यात् पञ्च पञ्च त्रयांकुशाम् ? । द्वाद (र) सम (मु) दोक्तव्या वंस्थाश्च दशमेव च ? ॥ ५३ ॥ पञ्च (वा) श्रम तत्र यतारा गन्ध सप्तविधोद्भवा ? | षड्वार हारत्रयकामं सप्तापशमको विदुः ॥ ५४॥ इतिसत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
गजशालाप्रमाणहस्तिलक्षणाधिकारो नामकोनाशीतितम सूत्रम् ।।