________________
गजशालाप्रमाणहस्तिलक्षणकमेकोनाशीतितम सूत्रम् ॥ शृङ्गारानन्दरूपैश्च करे शङ्कारकं विना। मृगस्य लक्षणं चैतत् कथितं त्वपराजित ॥ ३१॥
इति मृगजातिलक्षणम् ॥ मन्द्रं च कथयिष्यामि शृणु चैकाग्रमानसः । सुभरौ कपोलावङ्गं आत्मा गम्भीर एव च ॥ ३२॥ बृहच जठरं कुक्षी विपुले विस्तृतेऽन्यतः। रकाक्षोऽधोवनकश्च क्षुद्रदृष्टिनिरीक्षकः ॥ ३३॥ दुःखितौ च यदा कुम्भौ आधेकादिषु पते ध्रुवम् ? । मदं विना समोदश्च रतो वै तारकर्मणि ॥ ३४ ॥ कृष्णशिराः श्वेतदन्तो न क्षमे ? प्रतिबन्धकः । वादित्रैक्तिशब्देश्च किञ्चित्कोपः प्रशाम्यति ॥ ३५ ॥ स्वसैन्ये परसैन्ये वा दुर्धरो रक्तगन्धतः। पवमादिगुणैर्युक्तो मन्द्रजातिर्गजोत्तमः ॥ ३६॥
इति मन्द्रजातिलक्षणम् ॥ वृत्तकाकारसंयुक्त आपादतलमस्तकम् । रूपाल्ललितागश्च दृढकायो लघुस्वहृत् ॥ ३७॥ जनाकुले भीचकितो वादित्रैर्गच्छति ध्रुवम् । प्रतिबिम्बेन प्रविष्टो दन्तं दत्ते न वै रथे ॥ ३८॥ अनेकाडम्बरं दृष्ट्वा प्रासमेति निनादतः। आरेकान्ते पारवश्ये शीघ्रपादगतिक्रमः ॥ ३९॥ भृङ्गो न दापयेत्तस्य ? दुर्धर: कारयेत्कलिम् । एभिर्गुणैश्च सम्युको नाम्ना सङ्कीर्णको गजः ॥४०॥
इति संङ्कीर्णजातिलक्षणम् ॥ अटो वनानि क्षेयानि यतो गजसमुद्भवः । प्राचीलोहितके चैव पौरकौशलके अपि ॥४१॥ कच्छाख्यं चैव कृष्णाख्यं दाशेरं चैव सप्तमम् । अष्टमं माणिक दण्डवनान्यष्टौ भवन्ति हि ॥ ४२ ॥ पूर्वे वेगवती तीरे प्राचीवनसमुद्भवः । जालन्धरकाश्मीरान्तं लोहितं वनमुच्यते ॥४३॥ वारुणोदधिमासाद्य वर्न कच्छामिधानकम् । गोदावरीदण्डकाख्यं कृष्णं तद्वनमुच्यते ॥४४॥ भीशैलः स्वामिदेवश्च मलयो नीलपर्वतः। त्रिकूटः पर्वताश्चैते वनं दाशेरसंक्षकम् ॥ ४५ ॥