________________
(८२) राजभुवनं व्यशीतितमं सूत्रम् ॥
विश्वकर्मोवाच---
चतुरश्रीकृते क्षेत्रे भजेत्षोडशभागिकम् । पदसङ्ख्यामिति: ख्याता षट्पञ्चाशच्छतद्वयम् ॥ १॥ ब्रह्माऽऽस्ते गर्भमावृत्य षट्त्रिंशत्पदकोष्ठकैः । रुद्रसङख्यापर्युक्ता एकैके अर्यमादयः ॥२॥ चतुष्पदाष्टकर्णेषु द्वात्रिंशत्पदकल्पिताः । बाह्यकर्ण तथा चाऽष्ट द्विपदा भक्तितो मताः ॥ ३॥ अष्टावष्टपदा शेयाः शेषास्तु चतुरंशकाः । जयः सत्योऽथ वितथो गन्धर्वसुग्रीवासुराः ॥ ४॥ मुख्यश्चैव गिरि ख्यातः प्रत्येकं चाष्टपादकाः । चूडामणिमहाकूटो वास्तू राजालयार्थकम् ॥ ५॥
इति चूडामणिमहाकुटवास्तुः ।। वेश्ममध्यं ब्रह्मस्थानं शयनं च विवस्वतः। भाण्डागारं क्षितिधरे मैत्रे वै वारिमन्दिरम् ॥ ६ ॥ अर्यमिण सुरसौधं च कर्णान्तर्गुह्यवेश्मकम् । आग्नेय्यामनलस्यैवं नैर्ऋत्यां वस्त्रसङ्गहः ॥७॥ वायव्येचाअष्टधातूनामीशाने शिवभाण्डकम् । . मध्यकर्णे इमे प्रोक्ता बाह्यांश्च शृणु साम्प्रतम् ॥ ८ ॥ ईशाने चार्चनावेश्म आग्नेय्यां च महानसम् । कोष्ठागारं तु वायव्ये नैर्ऋत्ये शस्त्रमण्डपम् ॥९॥ याम्यस्थं वारुणस्थं च सौम्यस्थं चैव लक्षयेत् । इदं स्थानं राजपदं कर्तव्यं शान्तिमिच्छता ॥ १० ॥ यथोत्तरं मकराक्षं निर्गमे मकरान्वितम् । मत्तावरणछाद्यं च क्षेत्रपादैस्तु निर्गतम् ॥ ११ ॥ सभाटकयुकछन्देषु पूर्ववश्वाग्रनिर्गमः। वेद्युत्तरमुखं कार्य पुष्पकं सिंहमासनम् ॥ १२ ॥ सुवर्णस्फटिकोपेतं नैकरस्नैर्विभूषितम् । पुष्पकं चतुःस्तम्भायं छाद्यघण्टाद्यलकतम् ॥ १३ ॥ हेमरत्नादिकोपेतं मुक्ताफलविभूषितम् । राजासनं मध्यपीठं कर्तव्यं शुभलक्षणम् ॥ १४ ॥