________________
(७८) महाराजाधिराजो नामाष्टसप्ततितमं सूत्रम् ॥
विश्वकर्मोवाच
सभामध्ये तथा वेदी तत ऊचे सिंहासनम् । पौती ? पुष्पजाडयकुम्भं सिंहवक्त्रं कनालिकम् ॥ १ ॥ गजाश्वनरपीठाढ्यं सिंहव्यात्रैरलङ्कतम् । अनेकसिंहरूपैश्च क्रमतो विकृतानना ॥२॥ सिंहासने महाराजः शोभते मणिदीप्तिभिः । यथा शक्रः सुरैर्युक्तो बालार्ककिरणोदितौ ॥ ३॥ चक्रवर्त्यर्धपतिश्च भूत्रिभक्त्या महीपतिः । एते वै तु महाराजा शेषाश्च मण्डलेश्वराः ॥ ४॥ मण्डलीकोऽधिसामन्तः सामन्तो लघसंशकः। चतुरंशिकाऽल्पराजा; शेषास्तु राजपुत्रकाः ॥५॥ स्वके स्वभुक्तानुसारे राज्यं कुर्वन्ति स्वेच्छया । अनेकभोगभोक्तारो राजक्रीडामनेकधा ॥६॥ तपसाराधितः पूर्व महात्मभिरुमापतिः। तपसोऽर्थानुरूपैश्च राज्यं कुर्वन्ति भूतले ॥७॥ देवपूजार्चनं दानं पूज्यषड्दर्शनादिकम् । पुराणागमग्रन्थादि राजनीतिरनेकधा ॥ ८॥ पञ्चमात्रुद्भवं राज्यं नैककलादिकौशलम् । मातु(?)रेकैकोक्तगुणा नटेश्वरसमुद्भवाः ॥९॥ बृहन्छुश्रूषया माता द्वितीया पौरुषोद्भवा । स्त्रीणामोद्भवा माता गजमाता चतुर्थिका ॥ १० ॥ पञ्चमी चाश्वमाता च शेषा उपाङ्गवर्तिकाः। पञ्चमात्रद्भवमिति इन्द्रराज्यसमं भवेत् ॥ ११ ॥ हच्छुश्रूषया वक्ष्ये प्रहरादिजयार्धकम् । प्राप्त प्रत्यक्षप्रहरे शय्यायां संस्थितो गतौ ? ॥ १२॥ शय्यास्थ उद्भवेद्राजा धर्ममूतिर्भवेत्सदा । गोदानयुक् स्वर्णपादं निक्षिपेत् प्रतिभूतलम् ॥ १३ ॥ दन्तकाष्ठादिकं स्नानमौषधादिकसंभृतम् । ततो देवार्चनं कृत्वा स्नापनालेप्य पुष्पतः ॥ १४ ॥