________________
अपराजितपृच्छा पशिनी वै पद्मदला ह्यष्टकोणैर्विभूर्षिता । विप्राणां सप्तहस्ता च क्षत्रियाणां तु षट्करा ॥ १५ ।। वैश्यानां पञ्चहस्ता च शुद्राणां वेदहस्तिका। त्रिहस्ता कर्षकाणां च प्रकृतेर्थकहस्तिका ॥ १६ ॥ विवाहेषु च सर्वेषु स्वस्तिका सर्वकामदा। भद्रा भद्रा नरेन्द्राणां सर्वकल्याणकारिका ॥ १७ ॥ देवतास्थापने चैव स्वस्तिका भद्रा श्रीधरी। देवानां च प्रतिष्ठादौ पूजायां चैव पद्मिनी ॥१८॥ सिंहासनं तदूचे च भद्रासनमथापि वा। पट्टप्रस्तारिका चैवं गदिकाद्यं तथोत्तरे ॥ १९ ॥ चतुःस्तम्भसमायुक्तं छाद्यत्रयविभूषितम् । ऊर्ध्वं च घण्टाकलशं मत्तवारणशोभितम् ॥ २० ॥ शुक्लपट्टैश्च शोभायं पुष्परागविभूषितम् । इन्द्रनीलसमं कान्त्या हेमरत्नश्च शोभितम् ॥ २१ ॥ मुक्ताफलैरनेकैश्च सूर्यकान्तिमनोरमैः । एवं पुष्पकमाई च वेद्यूज़ च नृपासनम् ॥ २२ ॥ उत्तराभिमुखं कृत्वा याम्यायां स्थापयेद् दिशि । तथाग्रे च समस्ताश्च भक्ता ये स्वामिनः स्थले ॥ २३ ॥
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां __ समाष्टकवेदीनिर्णयाधिकारो नाम सप्तसप्ततितम सूत्रम् ॥