________________
(७७) सभाष्टकवेदीनिर्णयो नाम सप्तसप्ततितमं सूत्रम्॥
विश्वकर्मोवाच
नन्दा भद्रा जया पूर्णा दिव्या यक्षी च रत्नजा। उत्पला तदनुज्ञेया सभा अप्टो प्रकीर्तिताः॥१॥ चतुरधीकृते क्षेत्रे द्विरष्टपदभाजिते । मध्यमपदचतुकेण चतुष्कोऽलिन्दशेषतः ।। २।। नन्दा नाम समाख्याता सर्वकामफलप्रदा । चतुष्के भद्रविस्तार एकोभागश्च निर्गमः ॥३॥ भद्रा त्वेवं समाख्याता तेज:प्रतापवर्धका । भद्रं भद्रं चतुष्के तु जया नित्यं जगावहा ॥४॥ अलिन्दैर्वेष्टितं सर्व नियुहाच्छाद्य तथा । तथा पूर्णा भवत्येवं सर्वकल्याणकारिका ॥५॥ चतुरनं समं क्षेत्रं विभक्तं च नवांशकैः । केवला नवशालाश्च दिव्या नामापि सुन्दरी ॥ ६॥ निष्क्रान्ता च चतुर्भदैयक्षी कार्या सुशोभना । भद्रे भद्रे दिशालानि सा मता रत्नसंभवा ॥ ७ ॥ तस्याश्च प्रत्येकशालं प्रतिभद्रविभूषितम् । उत्पला च समाख्याता महाराजेन्द्रवल्लभा ॥८॥ लम्बिन्याख्यवितानानि विचित्राणि च मध्यतः । अनेकाकाररूपाश्च राजक्रीडोचिताः स्थिताः ॥ ९॥ शालभञ्ज्यादि प्रतिमा स्तम्भविमानसम्भवाः । मुक्तलूमच्छाधोपरि घण्टाकूटैरलंकृताः ।। १० ।। दिव्यसौवर्णकलशैर्मत्तवारणसम्युताः। सुरसझोपमाश्चैव नृपसमाग्रमण्डपाः ॥ ११ ॥
इति सभाधकम् ॥ तन्मध्ये याम्यभद्रे तु वेदी सिंहासनान्विता। श्रीधर्याद्या तथा चैव वैराजकुलसम्भवा ॥ १२॥ स्वस्तिका भद्रिका चैव श्रीधरी पद्मिनी तथा । चतुर्विधा भवेद् वेदी सर्वशान्तिकरी नृणाम् ॥ १३ ॥ स्वस्तिका चतुरश्रा स्याद् भद्रिका भद्रसम्युता । श्रीधरी विंशतिकोणा प्रतिभट्टैर्विभूषिता ॥ १४ ॥