________________
अपराजितपृच्छा गन्धधूपनैवेद्यैश्च पूजां कृत्वा अरार्तिकम् । पुरोहिते ततो दानमपूर्व सप्तवादिकम् ॥ १५ ॥ राजा गुरुद्गतं दानं शैवशास्त्रेणपूजनम् । भटेन स्तुतितो बोध्यं येनान्ते दर्शनं भवेत् ॥ १६ ॥ गोपूजां च ततः कृत्वा योगिनी च कुमारिकाम् । अनास्तिके कृपादानं शस्त्रार्थे तु निरोपणम् ॥ १७ ॥ वस्त्रशङ्कारकं कृत्वा सिंहासनसुसंस्थितः। चतुष्कतिलकं कृत्वा प्रवृत्तस्तिलकेश्वरः ॥ १८ ॥ नरवीरभटाश्चैव प्रणमन्ति महीपतिम् । धर्मोपदेशं दत्वा च तथा जनसमाकुले ॥ १९ ॥ शुङ्गारं च ततः कृत्वा दिव्यालङ्कारशोभितम् । सभामण्डपे गवाक्षे महासिंहासने स्थितम् ॥ २०॥ चतुष्कावसरे चैव वर्तते जनसंकुलम् । प्रणिपत्य समस्तैश्च मण्डलेश्वरकादिभिः ॥ २१ ॥ गजयुद्धं मेषयुद्धं विविधं मल्लयुद्धकम् । विधेयं छुरिकायुद्धं माहिषं कौकुंदादिकम् ॥ २२ ॥ एषा पुरुषजा माता स्वीये स्वीये च राज्यके । वाटिकां च समाश्रित्य पूर्वाह्ये देवताश्रमम् ॥ २३ ॥ गजाश्वरथकोप्ट्रासिकिरीटच्छत्रसंकुलैः । अलम्बचिह्नपताकैः टका ? स्तम्भैरनेकशः ॥ २४ ॥ प्रतिष्ठाप्य पुरे प्रीत्या राजगेहे उमापतिम् । कण्ठस्नानादिकं कृत्वा मण्डपे न शनैः स्थितैः ॥ २५ ॥ प्रेक्षणीयं देवताग्रे वाद्यगीतनृत्यादिकम् । आरात्रिकं ततो दृष्ट्वा प्रदक्षिणविसर्जनम् ॥ २६ ॥ भुक्ताशनः स्थितो राजाऽग्रवृत्त्या जनसंकुलैः। भुक्तोत्तरं ततः स्थाने सैन्यावसरवर्तनम् ॥ २७ ॥ स्त्रीणामङ्गोद्भवा माता प्रवृत्तं जनसंकुलम् । अबला बाला स्त्रियश्च मुग्धाः प्रौढादिकास्तथा ॥२८॥ एवं शय्यां महाराजा स्त्रीजनैः परिवेष्टितः। निद्रानन्तरतो वरल वर्तते जागृती दशा ॥ २९ ॥ तत्र रीत्युपयोग्यं च शृङ्गारं क्रियते पुनः । द्वादशादित्यसंकाशद्युतितोऽपि महान्परः ॥ ३० ॥