________________
(७६) महाराजनिवेशोनाम षट्सप्ततितमं सूत्रम् ॥
विश्वकर्मोवाच
चतुःषष्टिपदैर्भक्ते राजवेश्मनि वास्तुनि ।। देववेश्यराजवेश्म मैत्रपदे समाश्रितम् ॥१॥ प्रदक्षिणान्ते मार्गाश्च निवेशयेत्तु वेश्मनः । गजस्कन्धसमोत्सेधा प्रथमा ह्यच्चरंगिका ॥२॥ इन्द्रेन्द्रजयोर्मध्ये च राजमातुर्निवेशनम् । रुद्रे रुद्रदासे चैव वेश्मनः पेटमादिकम् ॥३॥ वेदाक्षेन्द्रजयोर्मध्ये भ्रमणी पदमध्यगा। राजभुवनस्यार्धे तु भ्रमणीः मार्गनिर्गता ॥४॥ तद्वीभ्यग्रसन्धौ च प्रतोली: कारयेच्छुभाः। कार्याश्च भ्रमणीमध्ये गजशालास्तथोत्तमाः ॥५॥ पूर्वार्धे तु त्रिभिडैिः पङ्क्तिरेका तु संस्थिता । अपरयाम्योत्तराणि ? शालाकिन उदाहृताः ॥ ६॥ तद्वाह्यतोऽन्तर्मार्गश्च कर्तव्यं शुभलक्षणम् । महिषीगृहाल्पहीनं राजमातुहं भवेत् ॥ ७ ॥ मैत्रान्ते पुरतो भागे द्वारगर्भस्तथान्तरे । गोपुराकृतिः कर्तव्यो दृढार्गलसमन्वितः ॥८॥ तत्सूत्रेण कृतं द्वारं राजमातुर्गहात्परम् । मैत्राग्निकणे कुर्याञ्च सभामाई सुशोभितम् ॥९॥ सिंहासनसमायुक्ता याम्यस्था चोत्तरानना । सिंहावलोकनयुक्ता महाराजसभा भवेत् ।। १० ॥ सभामध्ये तु कर्त्तव्यं वेद्यां सिहासनं महत् । श्रीधरोद्भवमाडं च सुवर्णरत्नभूषितम् ॥ ११ ॥ ब्रह्मस्थानार्धतः स्तम्भैः सिंहद्वारं गर्भोत्तरे । याम्योत्तरे तु कर्तव्या गजयुधा गजोत्तमाः ? ॥ १२ ॥ तदने चाहालकानि प्राकारे स्याद्रथाकृतिः । राजगृहाद् द्वे प्रतोल्यो प्राकारान्तर्विनिर्गते ॥ १३ ॥ राजमातुः पट्टराश्याः प्राकारो गृहतो भवेत् । सिंहद्वारसमानान्यनेकद्वाराणि कारयेत् ॥ १४॥ विवस्वत् पृथ्वीधराधैं प्राकार: पूर्वनिर्गतः । ब्रह्मणोऽन्ते तु प्राकारो जयद्वारं गर्भोत्तरे ॥१५॥