________________
૮
विश्वकर्मोवाच
शस्यावतारो नाम पञ्चसप्ततितमं सूत्रम् ॥
शृणु वत्स महागुह्यं त्वत्पृष्टमपराजित | वक्ष्यामि दुस्तरे काले तारणं समुदाहृतम् ॥ ३१ ॥ यच्छस्यानि प्ररोहन्ति स्वल्पवृष्टौ च पुत्रक । दुर्भिक्षं न भवेत्तत्र यदुपायेऽपराजित ॥ ३२ ॥ उत्पद्यते यतः शस्यं नराणां जलसंग्रहात् । जलाशये बन्धिते च क्षिप्रं शस्यं प्ररोहति ॥ ३३ ॥
चिन्महानदीतीरे केचिश्च सरिदाश्रये । केचित्कूपोदके वत्स अष्टाष्टौ शस्यसम्भवाः ॥ ३४ ॥
नगरे च पुरे श्रामे खेटे कूटे च कर्वटे । वापीकूपतडागानां नदीनां बन्धनादिकम् ॥ ३५ ॥ अरहप्रवाहाणां सारणीनां तथैव च । संचये सर्वशस्यानि जलं वै भूमिसंस्थितम् ॥ ३६ ॥ पातालोद्भवा मेघाच घटिका मोघवारिणः । सेतुबन्धभवा नद्याः शस्योभयतोद्भवाः ॥ ३७ ॥ अजलाश्च जलाकीर्णा अवृष्ट्यैकार्णवीकृता । धर्मस्त्राता च दुर्भिक्षे धर्मराजो महोत्सवः ॥ ३८ ॥ सम्प्राप्तो धर्मराजत्वं वरुणस्त्रिदशैः सह । तं देशं स्वर्गमाख्याति चेन्द्रतुल्यस्य भूपतेः ॥ ३९ ॥
रसो रसायनं ज्ञानं धनधान्यादिसंभवाः । सर्व प्राप्तं फलं तेन येन वै सञ्चितं जलम् ॥ ४० ॥ स्वर्णपुष्पफलैर्युक्तो नित्यं स त्वपराजित ।
नृपेण सूत्रधारेण महीशस्यादिभूषिता ॥ ४१ ॥
इति सूत्रसन्तान गुणकीर्तिप्रकाश प्रोक्तृश्री भुवन देवाचार्योक्ता पराजित पृच्छायां शस्यावताराधिकारो नाम पञ्चसप्ततितमं सूत्रम् ॥