________________
अपराजित पृच्छा
वसुधा तु ध्रुवं पुष्पं फलं राष्ट्रेषु वै प्रजा । तस्मात् सर्वप्रयत्नेन प्रजा पाल्या महीभृता ॥ १५ ॥
यत्र देशे प्रजाः स्वस्थाः सदा च धनिनो जनाः । तत्र देशे च कल्याणमिच्छासिद्धिर्भवेन्नृपः ॥ १६ ॥ यत्र देशे प्रजाः स्वस्था हेमरत्नविभूषिताः । स देशों दुर्लभो वत्स स्वर्गादिभोगदायकः ॥ १७ ॥ यत्र देशे प्रजाः स्वस्था उत्तमाधममध्यमाः । सर्वकार्येषु सोत्साहाः सदेशो दुर्लभः सुरैः ॥ १८ ॥ यत्र देशे प्रजाः स्वस्था दिव्यवस्त्रविभूषिताः । दिव्यभोगा नष्टरिपुः सदेशो देवदुर्लभः ॥ १९ ॥ यत्र देशे प्रजाः स्वस्था दिव्यलेपनलेपिताः । सर्वभोगप्रभोग्यश्च संदेशो देवदुर्लभः ॥ २० ॥ सुभिक्षे तु सदा सौख्यं दुर्भिक्षे तत्कथं भवेत् । यस्य कीर्तिः सुराष्ट्रैश्च नित्यमिच्छन्ति तं नृपम् ॥ २१ ॥ लोकाः सुभद्रैर्युक्ताश्च गजैरश्योष्ट्वाहनैः ।
- - ॥ २२ ॥
दुर्भिक्षे तु प्रजाः स्वस्था राजा तत्र प्रमोदते । प्रजास्वास्थ्ये नृपाः स्वस्था आसमुद्रवसुन्धरम् ॥ २३ ॥ दुर्भिक्षे क्षीयते धर्मो धनधान्यक्षयो भवेत् । प्रजाराजक्षयश्चैव दुर्भिक्षा द्रक्षति प्रभुः ॥ २४ ॥ प्रजां पोषयते राजा राजानं पोषयेत् प्रजा | अन्योन्य पोषणान्नित्यं राष्ट्रं नन्दति तश्विरम् ॥ २५ ॥ प्रजाहानौ ध्रुवं वत्स राजा स्याद् दुःखभाजनम् । सर्वाङ्गं क्षीयते राष्ट्रं जीवन्तोऽपि मृता नृपाः ॥ २६ ॥ स्वामी तु निर्दयः कालो दुर्भिक्षं चैव रौरवम् । अल्पोदकाश्च मेघाश्च अल्पशस्या च मेदिनी ॥ २७ ॥
अपराजित उवाच -
यदा मेघा न वर्षन्ति काले वा फल्गुवर्षणम् । tray स्वल्पवृष्ट कथं लोकाः भवन्ति ते ॥ २८ ॥ कथं प्रवर्तते राष्ट्रं सुखिनश्च नृपाः कथम् । कथं च धान्यनिष्पत्तिर्धनादिसुखिनो जनाः ॥ २९ ॥ शस्यहानौ कुतो लोकाः कुतो राष्ट्रं सराजकम् । कुतः प्रवर्तते सृष्टिर्विश्वेश कथयस्व मे ॥ ३० ॥
१८७